पूर्वम्: ३।३।५२
अनन्तरम्: ३।३।५४
 
सूत्रम्
रश्मौ च॥ ३।३।५३
काशिका-वृत्तिः
रश्मौ च ३।३।५३

ग्रहः विभाषा प्रे इति वर्तते। प्रशब्दे उपपदे ग्रहेर् धातोः विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेन अभिधीयते। रथादियुक्तानाम् अश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राः, प्रग्रहः।
न्यासः
रश्मौ च। , ३।३।५३

"रथादियुक्तानाम्" इत्यादि। कुतः पुनरेतल्लभ्यते,यावता रश्मिशब्दः सामान्यवचनः, यथैवासाव()आआदिसंयमनार्थायां रज्ज्वां वत्र्तते तथा चन्द्रार्कादिसम्बन्धिष्वपि रश्मिषु? एवं मन्यते- यथा "नौ वृ धान्ये" ३।३।४८ इति धान्यशब्दस्यापि धान्यविशेष एव गृह्रते, प्रत्ययान्तेन शब्दशक्तिस्वभाव्याद्धान्यविशेषस्य वाभिधानात्; तथा यद्यपि रश्मिशब्दः सामान्यवाची, तथापि प्रत्ययान्तः स्वभावाद्रज्जुविशेष एव वत्र्तते। तस्मात् युक्तं ग्रहणमिति॥
तत्त्व-बोधिनी
रश्मौ च १५३८, ३।३।५३

रश्मौ च। रथादियुक्तानाम()आआनां संयमनार्था रज्जुः--रश्मिः। तस्यामभिधेययायां प्रे उपपदे ग्रहेर्घञ्वा स्याद्भावादौ। इह द्विःकृत्वो ग्रहिरुपात्तः, सकृदेव तु वक्तुं शक्यः। तथाहि--- "उदि ग्रहः", "समि मुष्टौ" , "आक्रौशेऽवन्योः", "प्रे लिप्सायाम्" , "परौ यज्ञे", "अव वर्षप्रतिबन्धे विभाषा "प्रे वणिजा"मित्यादि "परौ भुवोऽवज्ञाने" इत्यस्यानन्तरम् "आङि रुप्लुवोः " इत्यस्तु, तथा तु न कृतमित्येव।