पूर्वम्: ३।३।५४
अनन्तरम्: ३।३।५६
 
सूत्रम्
परौ भुवोऽवज्ञाने॥ ३।३।५५
काशिका-वृत्तिः
प्रौ भुवो ऽवज्ञाने ३।३।५५

विभाषा इत्येव। परिशब्दे उपपदे भवतेः धातोः विभाषा घञ् प्रत्ययो भवति अवज्ञाने गम्यमाने। अवज्ञानम् असत्कारः। परिभावः, परिभवः। अवज्ञाने इति किम्? सर्वतः भवनं परिभवः।
न्यासः
परौ भुवोऽवज्ञाने। , ३।३।५५

तत्त्व-बोधिनी
परौ भुवोऽवज्ञाने १५४०, ३।३।५५

परिभावः। "अनादरः परिभवः परीभावस्तिरस्क्रिया" इत्यमरः। परत्वाद्धि क्तल्युटौ प्राप्तौ। तथा च पूर्वविप्रतिषेधोऽयं फलितः। एवं च वाऽसरूपन्यायोऽत्र न प्रवर्तते, अनपवादत्वादिति भावः।