पूर्वम्: ३।३।५८
अनन्तरम्: ३।३।६०
 
सूत्रम्
उपसर्गेऽदः॥ ३।३।५९
काशिका-वृत्तिः
उपसर्गे ऽदः ३।३।५९

अपित्येव। उपसर्गे उपपदे अदेर् धातोः अप् प्रययो भवति। प्रघसः। विघसः। उपसर्गे इति किम्? घासः।
न्यासः
उपसर्गेऽदः। , ३।३।५९

"अदेर्धातोरप्प्रत्ययो भवति" इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्()विधीयमानो घञोऽपवादो वेदितव्यः। "विघसः, प्रघसः" इति। "घञपोश्च" २।४।३८ इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,कः पुनरेवं सति गुणो भवति? अदेरपि घस्लुभावो न कत्र्तव्यो भवति? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम्-- "नौ ण च" ३।३।६० इत्यदेर्यथा स्यात्, घसेर्मा भूदिति॥