पूर्वम्: ३।३।५
अनन्तरम्: ३।३।७
 
सूत्रम्
किंवृत्ते लिप्सायाम्॥ ३।३।६
काशिका-वृत्तिः
किंवृत्ते लिप्सायाम् ३।३।६

विभाषा इति वर्तते। किमो वृत्तं किंवृत्तम्। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्। डतरतमौ च इति परिसङ्ख्यानं स्मर्यते। किंवृत्ते उपपदे लिप्सायां भविष्यति काले धातोः विभाषा लट् प्रत्ययो भवति। लिप्सा लब्धुम् इच्छा, प्रार्थनाभिलाषः। कं भवन्तो भोजयन्ति, कं भवन्तो भोजयितारः। लब्धुकामः पृच्छति कतरो भिक्षां दास्यति, ददाति, दाता वा। कतमो भिक्षां दास्यति, ददाति, दाता वा। लिप्सायाम् इति किम्? कः पाटलिपुत्रं गमिष्यति।
न्यासः
किंवृत्ते लिप्सायाम। , ३।३।६

"किमो वृत्तम्" इत्यादि। किं पुनःकिमो वृत्तमित्याह-- "वृत्तग्रहणेन " इत्यादि। तदित्यनेन किंशब्दः सम्बध्यते-- किमेतच्छब्दरूपं विभक्त्यन्तं वृत्तग्रहणेन प्रतीयात्। डतरडतमौ च "किंयत्तदौर्निर्धारणे द्वयोरेकस्य डतरच्"५।३।९२।"वा बहूनां जातिपरिप्रश्ने डतमच्" ५।३।९३ इत्येतौ प्रत्ययौ किंशब्दसम्बन्धिनावेव वृत्तग्रहणेन प्रतीयात्। प्त्ययग्रहणपरिभाषया चेह डतरडतमान्तं प्रतीयादित्येषोऽर्थो वेदितव्यः। "परिसंख्यानम् " इति। नियम इत्यर्थः। तेन किंतराम्, किंगौः, किंपुरुषः-- इत्यवमादिषु पदेषु न भवति; तेषां किंवृत्तत्वस्य परिगणनेन निरस्तत्वात्। "भोजयन्ति" इति। हेतुमण्णयन्ताल्लट्। "भोजयितारः" इति। "लुटः प्रथमस्य डारौरसः" २।४।८५ इति झे रसादेशः, "रि च" ७।४।५१ इति सकारलोपः। "लब्धुकामः पृच्छति" इति। उदाहरणेषु लिप्साया गम्यमानत्वात्॥
बाल-मनोरमा
किंवृत्ते लिप्सायाम् ६०९, ३।३।६

किंवृत्ते लिप्सायां। किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्य आह-- विभक्त्यन्तमिति लड्वेति। लडभावे तु लुट्लृटौ यथाप्राप्तम्। किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति युक्तम्। कं कतरं कतमं वेति। "क्षुधितमन्नलिप्स"मिति शेषः।

तत्त्व-बोधिनी
किंवृत्ते लिप्सायाम् ५००, ३।३।६

किंवृत्ते। किमा वृत्तं किंवृत्तम्। केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किंवृत्तं, तथापि तन्न गृह्रते, अनभिधानात्। तेनकदा भोजयिष्यसीत्यादौ भविष्यति लण्नेत्याहुः।