पूर्वम्: ३।३।७३
अनन्तरम्: ३।३।७५
 
सूत्रम्
निपानमाहावः॥ ३।३।७४
काशिका-वृत्तिः
निपानम् आहावः ३।३।७४

आङ् पूर्वस्य ह्वयतेर् धातोः सम्प्रसारणम्, अप्प्रत्ययो, वृद्धिश्च निपात्यते निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानम् उदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस् तत्र हि पानाय पशव आहूयन्ते। निपानम् इति किम्? आह्वायः।
न्यासः
निपानमाहावः। , ३।३।७४

निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे ३।३।११७ ल्युट्। कस्मादाहावशब्द उदकाधारे वत्र्तत इत्याह-- "तत्र हि" इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति॥