भावे ऽनुपसर्गस्य इति वर्तते। हन्तेर् धातोः अनुपसर्गे भावे अप् प्रत्ययो भवति, तत्संनियोगेन च भधादेशः, स चान्तोदात्तः। तत्र उदात्तनिवृ̄त्तिस्वरेण अप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भावे इत्येव, घातः। अनुपसर्गस्य इत्येव, प्रघातः, विघातः। चकारो भिन्नक्रमत्वान् नादेशेन सम्बध्यते। किं तर्थि? प्रकृतेन प्रत्ययेन। अप् च, यश्च अपरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते।
"स चान्तोदात्तः" इति। सूत्रे वधशब्दस्यान्तोदात्तस्योच्चारणात्। "तत्र "इत्यादिनाऽन्तोदात्ते वधादेशे यदिष्टं सिध्यति तद्दर्शयति। अपि कृते "अतो लोपः"
६।४।४८ इत्यकारलोपे च "अनुदात्तस्य च यत्रोदात्तलोपः"
६।१।१५५ इत्यप उदात्तत्वं भवति। "धातः" इति। कर्मादौ कारके घञ्,"हनस्तोऽटिण्णलोः"
७।३।३२ इति तत्वम्; "हो हन्तेः"
७।३।५४ इत्यादिना कुत्वम्। "चकारो भिन्नक्रमत्वात्" इत्यादि। चकारो नादेशेन सम्बध्यत इति सम्बन्धः।
कस्मान्न सम्बध्यते? भिन्नक्रमत्वात्। यदि "हनो वधश्च" इत्येष चकारस्य क्रमः; आदेशानन्तरमनुच्चारणात्।तस्मात् भिन्नक्रमत्वात् क्रमभेदान्नादेशेन सम्बध्यते।अपि तु प्रकृतेन प्रत्ययेन। एवञ्च प्रकृतेन सम्बन्धं दर्शयितुमाह-- "अप् च" इत्यादि। अप् प्रत्ययो भवति, चकारावृत्तेर्यः प्राप्नोति स च। तेन घञपि भवति॥