पूर्वम्: ३।३।७६
अनन्तरम्: ३।३।७८
 
सूत्रम्
मूर्तौ घनः॥ ३।३।७७
काशिका-वृत्तिः
मूर्तौ घनः ३।३।७७

हनः इत्येव। मूर्तिः काठिन्यम्। मूर्तौ अभिधेयायां हन्तेः अप् प्रत्ययो भवति, घनश्चादेशः। अभ्रघनः। दधिघनः। कथं घनं दधि इति? धर्मशब्देन धर्मी भण्यते।
न्यासः
मूर्त्तौ घनः। , ३।३।७७

"अभ्रवनः" इति। षष्ठासमासोऽयम्। अभ्रस्य काठिन्यमित्यर्थः। यदि मूत्र्तावभिधेयायां घनशब्दो व्युत्पाद्यते-- घनं दधीति, मूर्तिमतो दघ्नो नाभिधानं प्राप्नोति, कथं हि नाम मूर्त्तौ व्युत्पादितस्ततोऽन्यत्र वत्र्ततते? इत्यत आह-- "धर्मशब्देन धर्मी भण्यते" इति। मतुबालोपादभेदोपचारः, यथा-- शुक्लः पटः। शुक्लशब्देन शुक्लगुणः पट इति भावः॥