पूर्वम्: ३।३।७८
अनन्तरम्: ३।३।८०
 
सूत्रम्
अगारैकदेशे प्रघणः प्रघाणश्च॥ ३।३।७९
काशिका-वृत्तिः
अगारएकदेशे प्रघणः प्रघाणाश् च ३।३।७९

प्रपूर्वस्य हन्तेः प्रघणः प्रघाणः इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये। प्रघणः, प्रघाणः। द्वारप्रकोष्ठो बाह्य उच्यते। अगारैकदेशे इति किम्? प्रघातः अन्यः।
न्यासः
अगारैकदेशे प्रघणः प्रघाणश्च। , ३।३।७९

तत्त्व-बोधिनी
अगारैकदेशे प्रघणः प्रघाणश्च १५५१, ३।३।७९

अगारैक। "प्रघाणप्रघणाऽलिन्दा बहिद्र्वारप्रकोष्ठके" इत्यमरः।