पूर्वम्: ३।३।७९
अनन्तरम्: ३।३।८१
 
सूत्रम्
उद्घनोऽत्याधानम्॥ ३।३।८०
काशिका-वृत्तिः
उद्घनो ऽत्याधानम् ३।३।८०

उत्पूर्वात् हन्तेः उद्घनः इति निपात्यते ऽत्याधानं चेद् भवति। उद्घनः। यस्मिन् काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते। उद्घातो ऽन्यः।
न्यासः
उद्घनोऽत्याधानम्। , ३।३।८०

"अत्याधानम्" इति। अतिशब्द उपरिभावे वत्र्तते। आदधातिः स्थापने। य उपरि निधीयते स्थाप्यते तस्मिन् सः, तदस्याधानम्। अधिकरणे ल्युट्। "उद्घनः" इति। उद्धन्यतेऽस्मिन्नित्यधिकरणेऽप्॥