पूर्वम्: ३।३।८१
अनन्तरम्: ३।३।८३
 
सूत्रम्
करणेऽयोविद्रुषु॥ ३।३।८२
काशिका-वृत्तिः
करणे ऽयोविद्रुषु ३।३।८२

हनः इति वर्तते। अयस् वि द्रु इत्येतेषु उपपदेषु हन्तेः धातोः करणे कारके अप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यते अनेन इति अयोघनः। विघनः। द्रुघनः। द्रुघणः इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। पूर्वपदात् संज्ञायाम् अगः ८।४।३ इति वा।
न्यासः
करणेऽयोविद्रुषु। , ३।३।८२