पूर्वम्: ३।३।८३
अनन्तरम्: ३।३।८५
 
सूत्रम्
परौ घः॥ ३।३।८४
काशिका-वृत्तिः
परौ घः ३।३।८४

करणे हनः इत्येव। परिशब्दे उपपदे अन्तेर् धातोः अप् प्रत्ययो बह्वति करणे कारके, घशब्दश्चादेशः। परिहन्यते अनेन इति परिघः। पलिघः।
न्यासः
परौ घः। , ३।३।८४

"वलिघः" इति। "परेश्च घाङ्कयोः"८।२।२२ इति विभाषा लत्वम्॥