पूर्वम्: ३।३।८
अनन्तरम्: ३।३।१०
 
सूत्रम्
लिङ् चोर्ध्वमौहूर्तिके॥ ३।३।९
काशिका-वृत्तिः
लिङ् च ऊर्ध्वमौहूर्तिके ३।३।९

भविष्यति, विभाषा, लोडर्थलक्षणे इति सर्वम् अनुवर्तते। ऊर्ध्वमौहूर्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानात् धातोर् विभाषा लिङ्प्रत्ययो भवति, चकाराल् लट् च। ऊर्ध्वं मुहूर्ताद् भवः ऊर्ध्वमौहूर्तिकः। निपातनात समासः, उत्तरपदवृद्धिश्च। भविस्यतश्च एतद् विशेषणम्। ऊर्ध्वं मुहूर्तातुपरि मुहूर्तस्य उपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दो ऽधीष्व, अथ त्वं व्याकरणम् अधीष्व।
न्यासः
लिङ् चोध्र्वमौहूर्तिके। , ३।३।९

"निपातनात् समासः" इत्यादि। ऊध्र्वमौहूर्तिकशब्दस्योच्चारणेव निपातनम्। ऊध्र्वं मुहूत्र्तादिति विगृह्रास्मादेव निपातनात् समासः। ततः "बह्वचोऽन्तोदात्तात्" ४।३।६७ इति ठञ्, तत उत्तदरपदवृद्धिः, सा ह्रत एव निपातनात्। भविष्यतः प्रकृतत्वात् तस्यैवोध्र्वमौहूर्त्तिकग्रहणं विशेषणं विज्ञायत इत्याह-- "भविष्यतश्चैतत्" इत्यादि। ऊध्र्वमौहूर्त्तिकशब्दश्चायं वत्र्तमानस्य प्रत्यासन्ने वर्तते। ऊध्र्वमौहूर्त्तिके वत्र्तमानसमीप इत्यर्थः। "आगच्छेत्" इति। यासुट्, "अतो येयः" ७।२।८० इतीयादेशः, "आद्गुणः" ६।१।८४"लोपो व्योर्वलि" ६।१।६४ इति यकारस्य लोपः,सलोपोऽनन्त्यस्य" ७।२।७९ इति सकारस्य॥
बाल-मनोरमा
लिङ् चोध्र्वमौहुर्तिके ६१२, ३।३।९

लिङ् चोध्र्वमौहूर्तिके। "ऊध्र्व"मिति विभक्तिप्रतिरूपकमव्ययम्। ऊध्र्वं मुहूर्ताद्भव इति विग्रहः। केचित्तु "ऊध्र्व"मिति द्वितीयान्तम्, "अकर्मकधातुभिर्योगे" इति कर्मत्वादित्याहुः। ऊध्र्वमौहूर्तिक इति। ऊध्र्वमुहूर्तशब्दाद्भवार्थे कालाट्ठिति भावः। ननु तद्धितार्थेत्यत्र दिक्सङ्ख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथंसमास इत्यत आह-- निपातनादिति। पूर्वपदे आदिवृद्धिमाशङ्क्य आह-- उत्तरपदवृद्धिश्चेति। निपातनादित्यनुषज्यते। ऊध्र्वमौहूर्तिके इति। मुहूर्तादूध्र्वकालीने इत्यर्थः। इदं च लोडर्थलक्षण इत्यत्रान्वेति। लिङ्लटाविति। चाल्लट् समुच्चीयत इति बावः। वा स्त इति। पक्षे लुट्लृटौ यथाप्राप्तम्। छन्द इति। वेदमित्यर्थः। इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः। अथाऽस्मिन्नेव तृतीयपादे कतिपयान्विधीनाह--

तत्त्व-बोधिनी
लिङ् चोध्र्वमौहूर्तिके ५०३, ३।३।९

लिङ् चोध्र्व। "कालाट्ठञ्"। "तद्धितार्थोत्तरपदे"त्यत्र "दिक्सङ्ख्ये" इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह-- निपातनादिति।