पूर्वम्: ३।३।९१
अनन्तरम्: ३।३।९३
 
सूत्रम्
उपसर्गे घोः किः॥ ३।३।९२
काशिका-वृत्तिः
उपसर्गे घोः किः ३।३।९२

भावे अकर्तरि च कारके इति वर्तते। उपसर्गे उपपदे घुसंज्ञकेभ्यः धातुभ्यः किः प्रत्ययो भवति। कित्करणम् आतो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः।
लघु-सिद्धान्त-कौमुदी
उपसर्गे घोः किः ८६५, ३।३।९२

प्रधिः। उपधिः॥
न्यासः
उपसर्गे घोः किः। , ३।३।९२

"किप्रत्ययो भवति" इति। घञोऽपवादः। "कित्करणे लोपार्थम्" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपो यथा स्यादिति॥
तत्त्व-बोधिनी
उपसर्गे घोः किः १५५५, ३।३।९२

उपसर्गे [घोः किः। बाहुलकात्कत्र्तर्यपीति माधवः। अतएव उप = समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते]। कित्त्वादातो लोपः। अन्तर्धिरिति। "अन्तः शब्दस्याऽङ्किविधी"ति वार्तिकादुपसर्गत्वम्। उपाधीयतेऽनेनेति। एतेन "उप = समीपे स्वधर्ममादधातीत्युपाधिः। बाहुलकात्कर्तरि कि"रिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम्। "विधाता वि()आसृड्विधि"रित्यत्रापि कर्तरि माभूत् किः, किंतु विध विधाने इत्यस्मादिगुपधात्किदितीति रूपसिद्धेः।