पूर्वम्: ३।३।९६
अनन्तरम्: ३।३।९८
 
सूत्रम्
ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥ ३।३।९७
काशिका-वृत्तिः
ऊतियूतिजूतिसातिहेतिकीर्तयश् च ३।३।९७

मन्त्रे इति न अनुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्तः इति वर्तते। अवतेः ज्वरत्वरस्रिव्यविमवाम् उपधायाश्च ६।४।२० इति ऊथ्। ऊतिः। स्वरार्थं वचनम्। यौतेर् जवतेश्च यूतिः, जूतिः। दीर्धात्वम् च निपात्यते। सातिः। स्यतेः इत्वाभावो निपात्यते, सनोतेर् वा जनसनखनां संज्ञालोः ६।४।४२ इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर् हिनोतेर् वा हेतिः। कीर्तयतेः कीर्तिः।
लघु-सिद्धान्त-कौमुदी
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ८६७, ३।३।९७

एते निपात्यन्ते॥।
न्यासः
ऊतियूतिजूतिसातिहेतिकीत्र्तयश्च। , ३।३।९७

"स्वरार्थं वचनम्" इति। न तु प्रत्ययार्थम्। "स्त्रियां क्तिन्" ३।३।९४ इत्येव सिद्धत्वात्। नाप्यूडर्थम्; "ज्वरत्वर" ६।४।२० इत्यादिनैव सिद्धत्वात्। "यौतेः"इति। "यु {मिश्रणेऽमिश्रणे च-धा।पा} मिश्रणे (धा।पा।१०३३) इत्यस्य। "जवतेश्च" इति। "जु" इत्यस्य सौत्रस्य ३।२।१५० धातोः। "दीर्घत्वञ्च" इति। चकारादुदात्तत्वञ्च। क्तिन् सामान्यलक्षणेनैव सिद्धः। "ल्यतेः" इति। "षोऽन्तकर्मणि" (धा।पा।११४७) इत्यस्य। "इत्त्वाभावोऽपि निपात्यते" इति। "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वं प्राप्नोति, ततस्तस्याभावो निपात्यते। "सनोतेर्वा" इति। "षणु दाने" (धा।पा।१४६४) इत्यस्य। "जनसनखनाम्" ६।४।४२ इत्यात्त्वे कृते सातिरिति सिध्यतीति शेष-। यद्येवम्, किमर्थं निपातनमित्याह-- "स्वरार्()थम" इत्यादि। असति हि निपातने सातिश्शब्द आद्युदात्तः स्यात्। अन्तोदात्तो यथा स्यादित्येवमर्थ निपातनम्। "हन्तेर्हितनोतेर्वा" इति। हेतिरिति यदा हन्तेः, तदा हकारस्यैत्त्वं निपात्यते, अनुनासिकलोपस्तु "अनुदात्तोपदेश" ६।४।३७ इत्यादिनैव सिद्धः। यदा तु "हि {गतौ बुद्धौ च-धा।पा} (धा।पा।१५७) इत्स्य, तदा गुणो निपात्यते। "कीर्त्तिः"इति। "कृतं संशब्दने" (धा।पा।१६५३) इत्यस्माच्चुरादिणिजन्तात् "ण्यासश्रन्थो युच्" ३।३।१०७ इति युचि प्राप्ते क्तिन्निपात्यते। "उपधायाश्च" ७।१।१०१ इतीत्त्वम् भवति, "हलि च" ८।२।७७ इति दीर्घत्वम्॥
तत्त्व-बोधिनी
ऊतियूतिजूतिसातिहेतिकीर्तयश्च १५५८, ३।३।९७

उदात्त इतीति। "मन्त्रे वृषेषे"ति सूत्रादनुवर्तत इत्यर्थः। एवं च क्तिन्नन्तस्याद्युदात्तत्वे प्राप्ते "ऊतियूती"त्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः। इत्त्वाऽभाव इति। "द्यतिस्यती"ति प्राप्तस्याऽभाव इत्यर्थः। हन्तेरिति। नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम्। कीर्तिरिति। कीर्तयतेः "ण्यासश्रन्थे"--ति युचि प्राप्ते क्तिननिपात्यते, उदातत्वं च। "तां सुते कीर्तिम्"।