पूर्वम्: ३।३।९८
अनन्तरम्: ३।३।१००
 
सूत्रम्
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३।३।९९
काशिका-वृत्तिः
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ३।३।९९

भावे इति न स्वर्यते। पूर्व एव अत्र अर्थाधिकारः। समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये। समजन्ति अस्यामिति समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या। कथं तदुक्तम् स्त्रियां भावाधिकारो ऽस्ति तेन भार्या प्रसिध्यति इति? भावाधिकारो भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयो ऽधिकारः।
न्यासः
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः। , ३।३।९९

"भाव इति न स्वर्यते" इत्यादि। स्थागादिसूत्रे ३।३।९५ यद्भावग्रहणं कृतं तस्यैव स्वरितत्वं न क्रियते। "भावे" ३।३।१८ "अकत्र्तरि च कारके संज्ञायाम्" ३।३।१९ इत्येष एवाधिकारः। "समज्या" इति। "अजेव्र्यघञपोः"२।४।५६ इति वीभावो न भवति; संज्ञायामिति वचनात्। न हि वीभावे कृते संज्ञा गम्यते, नियतवर्णानुपूर्वीका हि संज्ञा भवति। "निपत्या" इति। निपतन्ति तस्यामिति। "षद्()लृ विशरणगत्यवसादनेषु" (धा।पा।८५४)। निषीदन्ती तस्यामिति। "निपत्या" इति। निपतन्ति तस्यामिति। "मत्या" इति। मन्यन्ते तयेति मत्या। पूर्ववदनुनासिकलोपः, ह्यस्वस्य तुक्। विदन्ति तया विद्या। सुन्वन्ति तस्यां सुत्या। शेरते तस्यां शय्या। "अयङ यि क्ङिति"७।४।२२ इत्ययङादेशः। भरणं भृत्या। एति तयेत्या = अयनमिति। "भृञोऽसंज्ञायाम्" ३।१।११२ इत्यत्र--- "संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।" स्त्रियां भावाधिकरोऽस्ति तेन भार्या प्रसिध्यति॥ इत्युक्तम्, इह "भाव इति न स्वर्यते" (का।३।३।९८) इत्यभिहितम्, अतः पूर्वोत्ततरवचनं व्याहतमिति मन्यमान आह-- "कथम्" इत्यादि। यदीह "भावे" ३।३।१८ इति न स्वर्यते तत्कथं "स्त्रियां भावाधिकारोऽस्ति" इत्युक्तम्, न हि "भावे" इत्यस्वर्यमाणे भावाधिकारस्येहास्तित्वमुपपद्यते? "भावाधिकारो भाव्यव्यापारः"इत्यादि परिहारः। भावाधिकारशब्देन तत्र व्यापारो वाच्यत्वेन विवक्षितः। स पुनर्भृत्याशब्दाभिधेयभावोपगमनलक्षमः। अत एवैतदुक्तं भवति-- "संज्ञायां समजनिषद" इत्यादिना व्युत्पादितस्य भृत्याशब्दस्य भाव एवाभिधेयमुपयाति, न तु कर्त्तृवर्जितं कारकम्। तेन कर्मणि कारके भार्येति सिध्यीति। न तु शास्त्रीयोऽधिकारोऽयं स्वरितत्वासङ्गात् प्रियोगमुपतिष्ठते, स तत्र भावशब्देन विवक्षितो मा भूत्। समजन्ति तस्यां समज्या, निषीदन्ति तस्यां निषद्या, विदन्त्यनया विद्येत्येवमादीनां कारके करणादिके करणादसाधुत्वमिति न। कथं पुनः "भावेऽकत्र्तरि च कारके" (३।३।१८,१९) सर्वस्मिन्ननुवत्र्तमाने क्वचिद्भावः क्यबन्तस्याभिधेयभावमुपयाति? क्वचिदकर्त्तृकारकमेवेत्येष नियमो लभ्यते? संज्ञावशात्। यत्रोत्पद्यमानेन प्रत्ययेन संज्ञा गम्यते तत्र भाव एवाभिधेयत्वं प्रतिपद्यते, इतरदुदास्ते। यत्र त्वकत्र्तरि कारके प्रत्ययेनोत्पन्नेन संज्ञा गम्यते तत्र तदभिधेयतामुपयाति, भावस्त्वौदासीन्यमवलम्बते। "अकत्र्तरि च कारके संज्ञायाम्"३।३।१९ इति संज्ञाग्रहणेऽनुवत्र्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणमकर्त्तृकारकेण सम्बद्धमिति। ततः कर्त्तृवर्जित एव कारके संज्ञायां स्यात्, न भावे। तस्माद्भावेऽपि संज्ञायामेव यथा स्यादित्येवमर्थं पुनः संज्ञाग्रहणम्। अथ कथं भृतिः, मतिः, आसुतिरिति? निपातनात्। किं पुनर्निपातनम्? "कर्मणि भृतौ" ३।२।२२, "मतिबुद्धिपूजार्थेभ्यश्च" ३।२।१८८ "रजःकृष्यासुतिपरिषदो वलच्" ५।२।१११ #इति॥
तत्त्व-बोधिनी
संज्ञायां समजनिषदनिपतमनविदषुञ्?शीङ्?भृञिणः १५६०, ३।३।९९

गलपार्(ोति। तया हि क्रुद्धो ज्ञायत इति भावः। शेरतेऽस्यामिति शय्या। भरणं भृत्या = जीविका। "कुमारभृत्या--गर्भिण्याः परिचर्याऽभिधीयते" इति हारावली। "कुमारमृत्याकुशलैरधिष्ठिते" इति रघुः। संज्ञायां किम्?। मतिः। भृतिः। आसुतिः। तथा च व्यवह्मतं -"मतिबुद्धिपूजार्थेभ्यश्चट "कर्मणि भृतौ" "रजः कृष्यासुती"त्यादि। एतेन "मतिबुद्धी"त्यादसूत्रप्रयोगादेव मतिभृत्यादीनां साधुत्वमिति दुर्घटाद्युक्तिः प्रत्युक्ता।