पूर्वम्: ३।३।१७६
अनन्तरम्: ३।४।२
 
सूत्रम्
धातुसम्बन्धे प्रत्ययाः॥ ३।४।१
काशिका-वृत्तिः
धातुसम्बन्धे प्रत्ययाः ३।४।१

धात्वर्थे धातुशब्दः। धात्वर्थानां सम्बन्धो धातुसम्बन्धः विशेषणविशेष्यभावः। तस्मिन् सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति। अग्निष्टोमयाज्यसय पुत्रो जनिता। कृतः कटः श्वो भविता। भावि कृत्यम् आसीत्। अग्निष्टोमयाजी इति भूतकालः, जनिता इति भविष्यत्कालः। तत्र भूतः कालः भविष्यत्कालेन अभिसम्बध्यमानः साधुर् भवति। विशेषणं गुणत्वाद् विशेष्यकालम् अनुरुध्यते, तेन विपर्ययो न भवति। प्रत्ययाधिकारे पुनः प्रत्ययग्रहणम् अधात्वधिकारविहिता अपि प्रत्ययाः तद्धिता धातुसम्बन्धे सति कालभेदे साधवो यथा स्युः इति। गोमानासीत्। गोमान् भविता। गावो विद्यन्ते ऽस्य इति वर्तमानविहितो मतुप्, आसीत् भविता इति सम्बन्धाद्तीते भविष्यति च साधुर् भवति।
न्यासः
धातुसम्बन्धे प्रत्ययाः। , ३।४।१

"धात्वर्थे धातुशब्दः" इति। अभिधेयेऽभिधानोपचारं कृत्वा धात्वर्थोऽत्र धातुशब्देन निर्द्दिष्ट इति दर्शयति। भ्वादिष्वेवायं धातुशब्दो वत्र्तते, स्वार्थे गुणीभूतस्य धातुशब्दस्य शब्दान्तरेण सम्बन्धो न स्यात्; तस्माद्धात्वर्थ एवायं धातुशब्दो वत्र्तते, न भ्वादिषु। ततश्च धातुसम्बन्ध इत्यस्य धात्वर्थसम्बन्ध इत्येषोऽर्थो विज्ञायत इत्याह-- "धात्वर्थानां सम्बन्धो धातुसम्बन्धः" इति। कथं पुनः सम्बन्ध इत्याह-- "विशेषणविशेष्यभावः" इति। "अयथाकालोक्ता अपि" इत्यादि। यो यस्यात्मीयः कालो यथाकालम्। "यथाऽसादृश्ये"२।१।७ इति वीप्सायामव्ययीभावः, यथाकाले उक्ता यथाकालोक्ताः, "सप्तमी"२।१।३९ इति योगविभागात् समासः,न यथाकालोक्ताः = अयथाकालोक्ताः। एतदुक्तं भवति-- स्वैः स्वैर्विधायकैर्वाक्यैर्यत्र यस्मिन् यस्मिन् काले ये ये विहितास्ततोऽन्यत्रकालेऽपि प्रयुक्ताः प्रत्ययाः साधवो भवन्तीति। "अग्निष्टोमयाजी" इत्यादीन्युदाहरणानि दर्शयति। सर्वत्र तिङन्तदाच्योऽर्थो विशेष्यः, सुबन्तवाच्यस्तु विशेषणम्। "अग्निष्टोमयाजीति भूतकालः" इति। भूतः कालोऽस्येति बहुव्रीहिः। भूतकालत्वंतु भूताधिकारे "करणे यजः"३।२।८५ इति णिनेर्विध#आनात्। "जनितेति भविष्यत्कालः" इति। भविष्यन् कालोऽस्येति बहुव्रीहिरेव। भविष्यत्कालत्वं तु भविष्यदनद्यतने लृटो विधानात्। "तत्र"इति। निर्धारणे सप्तमी। तयोर्भूतकालभविष्यत्कालयोर्मध्ये यो भूतकालः स भविष्यत्कालेन सम्बध्यमानः साधुर्भवति। अग्निष्टोमयाजीति भूतकालो जनितेति भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्काल एव सम्पद्यते। द्वितीयेऽप्युदाहरणे "कृतः" इति भूतकालः; भूते निष्ठाविधानात्। "भविता" इति भविष्यत्कालः पूर्ववदेव। तत्र भूतकाल इतरेणापि सम्बध्यमानः साधुर्भवति। तृतीयेऽपि "भावी"इति भविष्यत्कालः; "भविष्यति गम्यादयः"३।३।३ इति वचनात्। "आसीत्" इति भूतकालः; भूतानद्यतने लङो विधानात्। तत्र भविष्यत्कालो भूतकालेनापि सम्बध्यमानः साधुर्भवति। इहाग्निष्टोमयाज्यस्य पुत्रो जनितेति भूतकालो भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्कालः सम्पद्यते। तथा ह्रयमत्रार्थः प्रतीयते-- सोऽस्यपुत्रो जनिता योऽग्निष्टोमेन यष्टेति। न च भविष्यत्कालो भूतकालेनाभिसम्बध्यमानो भूतकालतां प्रतिपद्यते, न ह्रत्रायमर्थः प्रतीयते-- सोऽस्य पुत्रो जातो योऽग्निष्टोमेनेष्टवानिति। इतरयोरप्युदाहरणयोर्विशेषणं विशेष्यकालतामापद्यते, यतस्तत्रायमर्थोऽवगम्यते-- स ()आओ भविता कटो यः करिष्यते, तत् कृत्यमासीद् यदभूतमिति। तदेतत्कथं भवति? विपर्ययः कस्मान्न भवति? इत्याह-- "विशेषणम्ित्यादि। विशेषणं हि परार्थत्वाद्()गुणोऽप्रधानमित्यर्थः। तेन च प्रधानकालस्य विशेष्यस्योपकारः कत्र्तव्यः। न च तत् प्रधानमपरित्यज्य स्वकालं प्रधानकालमप्रतिपद्यमानं प्रधानोपकारक्रियां कर्त्तुं समर्थ भवतीति प्रधानस्य यः कालस्तमुरुध्यते। विशेष्यं तूपकार्यत्वात्प्रधानम्।न च प्रधानस्य गुणकालापत्तिर्युक्ता, अन्यथा यदिगुणकालं प्रधानकालः प्रतिपद्येत तदा तस्य प्रधानत्वं हीयेत। तेन न भवति विपर्ययः। अथ प्रत्ययग्रहणं किमर्थम्, यावता प्रत्यय इत्यनुवत्र्तत इत्यत आह-- "प्रत्ययाधिकारे"इत्यादि। पूर्वकं प्रत्ययग्रहणं धातुसम्बद्धम्, अतस्तदिहाश्रीयमाणं धात्वधिकारविहितानां प्रत्ययानां साधुत्वे सम्पद्यते। अत्र पुनः प्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, तदर्थं पुनः प्रत्ययग्रहणम्। "कालभेदे" इति। कालविशेषे,अस्मात्कालादन्यस्मिन् काल इत्यर्थः। "गोमानासीत्िति। गोमानिति वत्र्तमानकालः, "तदस्य"५।२।९३ इत्यादिना वत्र्तमानकालमस्तीत्युपादाय मतुपो विधानात्। स भूतभविष्यत्कालाभ्यां सम्बध्यमानः साधुर्भवति॥
बाल-मनोरमा
धातुसम्बन्धे प्रत्ययाः ६४६, ३।४।१

धातुसम्बन्धे। धातुशब्देन धात्वर्थो लक्ष्यते। धात्वोः संबन्ध इति विग्रहः, संबन्धस्य द्विनिष्ठत्वात्। तथा च धात्वर्थयोः संबन्धे सति परत्ययाः स्युरिति लब्धम्। कस्मिन्नर्थे इत्याकाङ्क्षायां काले इति गम्यते, "वर्तमाने ल" डित्यारभ्य तत्तत्कालविशेषेष्वेव प्रत्ययविधिदर्शनात्। तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते। तदाह-- धात्वर्थानामित्यादिना। धात्वर्थयोरित्यर्थः। उदाहरणबहुत्वाभिप्रायं बहुवचनम्। "वर्तमानसामीप्ये वर्तमानवद्वे"त्यादिसूत्रे यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत्। तथा च "वसन् ददर्शे" इत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इतिसिद्धं भवति। ननु "वसन् ददर्शे"त्यत्र भूते लडिव वर्तमाने लिडितय्पि स्यादित्यत आह-- तिङन्तेति। "वसन् ददर्शे" त्यादौ तङन्तवाच्या दर्शनादिक्रिया प्रधानम्। वासादिक्रिया तु दर्शनादिक्रियार्थत्वाद्गुणभूता। अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः। भूते लडिति। एवं च उषित्वा ददर्शेत्यर्थ-। तदाह-- अतीतेति। अत#ईति वासे कर्ता यस्येति विग्रहः। "सप्तमीविशेषणे बहुव्रीहौ" इति ज्ञापकाद्व्यधिकणपदो बहुव्रीहिः। उदाहरणान्तरमाह-- सोमयाजीति। सोमेन इष्टवान्यः स सोमयाजी। करणे यजः" इति भूते विहितो णिनिः, इह भवितेत्यनद्यतनभविष्यल्लहन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः। तदाह-- सोमेन यक्ष्यमाण इति। भवनमिति। उत्पत्तरित्यर्थः। "गोमानासी"दित्यप्युदाहार्यम्। अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां वर्तमानायां "तदस्यास्ती"ति विहितो मतुप् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात्। एतेन अर्थद्वारके धात्वोः संबन्धे इत्यपि व्याख्यानं परास्तम्। तथा सति परस्परसंबन्धार्थबोधकधातुद्वयप्रोगे प्रत्यया इत्यर्थलाभाद्गोमानासीदित्यत्र मतुबनापत्तेः। नहि धात्वोरिह प्रयोगोऽस्ति। धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्व्यस्य सत्त्वादासीदित्यर्थे मतुब्निर्बाध इत्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
धातुसंबन्धे प्रत्ययाः ५३७, ३।४।१

धातुसंबन्धे। इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः , स्वार्थस्मारणेनोपक्षीणत्वात्, पदार्थसंसर्गो वाक्यार्थः, कारकविशिष्टा क्रिया चेति स्वीकारात्। "शब्दानुगमादृते न शाब्दोऽस्ति प्रत्यय" इत्यवष्टभ्य शाब्दबोधे शब्दोऽपि भासत इत्यभ्युपगमेऽपि शब्दस्य स्वर्थं प्रत्येव प्रकारत्वं न तु शब्दान्तरं प्रति। तथा च धातुसंबन्धो वाक्येन न बुध्यते इति तस्य वाक्यार्थत्वाऽसंभवाद्धातुशब्देन धात्वर्थो लक्ष्यते। ननु "धातोः कर्मणः समानकर्तृका"दिति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमाश्रितं तथेहापि धात्वोरर्थद्वारकः संबन्धोऽस्त्विति रकचेत्। मैवम्। तथा हि सति परस्परसंबन्धाऽर्थबोधकाऽनेकधातुप्रयोग एव प्रत्ययाः स्युस्ततश्च गोमानासीत् गोमान् भवितेत्यादि न सिध्येत्। न ह्रत्र "वसन् ददर्शे" त्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते। न चाऽप्रयुज्यमानस्य दात्वन्तरेण संबन्धोऽस्ति। अर्थयोः संबन्धाभ्युपगमे धातुद्वयाऽभावेऽपि धात्वर्थद्वयस्य सत्त्वाद्गोमानासीदित्यादौ नाऽनुपपत्तिः। तदेतदभिप्रेत्याह--- धात्वर्थानामिति। विषयबहुत्वापेक्षं बहुवचनम्। एकैकविषयापेक्षायां त#उ धात्वर्थयोरिति बोध्यम्। एतच्च मनोरमानुसारेण व्याख्यातम्। केचित्तु-- धात्वोरर्थ्दवारकसंबन्धेऽभ्युपगते "गोमानासीद्भविते"त्यादि न सिध्येदिति मनोरमोक्तं चिन्त्यमेव। "तत्करोति तदाचष्टे" इत्यकत्रेव "तदस्यास्त्यस्मि" न्नितक्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात्प्रकृतसूत्रानपेक्षयैव तत्सिद्धेः। न ह्रत्र मतुब्बिधौ "वर्तमाने ल"डित्यादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः। तद्भाष्यकैयटाद्यननुगुणम्। तधा हि भाष्ये-- प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमर्थमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्यात्, गोमानासीत् भविता वेति समाहितम्। कैयटेन तु-- "तदस्यास्त्यस्मिन्निति मतुप् प्रत्ययोवर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित" इत्युक्तम्। तथा च मतुब्विधावस्तीत्यत्र एकत्वस्याऽविवक्षतत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्ग्रन्थबलादवगम्यते। किं च "दण्डिनमानये" त्युक्ते वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नाऽन्यः। तथा च "आसीत्" "भविते" ति तिङन्तपदानुरोदेन "गोमा"नित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मतुप्प्रत्ययः प्रकृतसूत्रेणैव व#इधीयते न तु तदुक्तरीत्या लभ्यत इति दिक्। ननु तत्तद्विधिवाक्यैरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रेणेत्यत आह-- अत्र काल इति। "वर्तमानसामीप्ये" इत्यारभ्य कालाऽन्यत्वं प्रायेण प्रतिपाद्यते तदेव चेह गृह्रत इति भावः। "वनानि पश्यन् यया" वित्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकङ्क्षायामाह--तिङन्तवाच्येति। प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः। प्रत्यया इति। कालान्तरभाजो भवनन्तीत्यर्थः। भूते लडिति। एवं चोषित्वा ददर्शेत्र्थः। अतीतेति। अतीतवासकर्ता कर्ता यस्य दर्शनस्येति बहुव्रीहिः। सोमयाजीति। "करणे यजः" इति भविष्यति णिनिः। अत एवाह-- सोमेन यक्ष्यमाण इति। एवं च "पश्यन् यया" वित्यत्र दृशेर्भूते लट्। दृष्ट्वा ययावित्यर्थः। "निवेदयिष्यतो मनो न विव्यथे" इत्यत्र तु वेदतेर्भूते लृट्। तस्य "लृटः सद्वाट इति शतृप्रत्ययः। निवेदनं कृतवत इत्यर्थ इत्याद्यूह्रम्।स्यादेतत् "भावि कृत्यमासी"दित्यत्र सूत्ररीत्या "भावि"शब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येकर्तृकमतीतं भवनमितयर्थाद्भाव्यासीच्छब्दयोर्युगपत्प्रयोगो न स्यात्, भाविशब्दार्थस्य आसीच्छब्देनैव लाभात्। ततश्चैतावन्तं कालं भावितया व्यवह्मतं तदिदानीमासीदित्यर्थोऽत्रावश्यं स्वीकर्तव्यः। स्वीकृते तु "गोमानासी"दित्यत्रापि गोमानिति व्यवहारविषय आसीदित्यर्थोऽस्तु। "वसन् ददर्शे" इत्यादौ भूते लक्षणया यथायथं लडादिः स्वीकर्तव्यः। "सोमयाजी" त्यत्र तु भूत एव णिनिप्रत्यये जातेऽपि भवितेति लुडन्तसमभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण,णिनेर्भविष्यदर्थे लक्षमया वा प्रयोगो भवेदिति किमनेन सूत्रेणेति चेत्। अत्राहुः-- अध्याहारलक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः। न हि "भावि कृत्यमासी"दित्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति।