पूर्वम्: ३।४।९
अनन्तरम्: ३।४।११
 
सूत्रम्
प्रयै रोहिष्यै अव्यथिष्यै॥ ३।४।१०
काशिका-वृत्तिः
प्रयै रोहिष्यै अव्यथिष्यै ३।४।१०

तुमर्थे छन्दसि इत्येव। प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये। प्रपूर्वस्य यातेः कैप्रत्ययः प्रयै देवेभ्यः। प्रयातुम्। रुहेः इष्यैप्रत्ययः अपामोषधीनां रोहिष्यै। रोहणाय। व्यथेर्नञ्पूर्वस्य इष्यैप्रत्ययः अव्यथिष्यै। अव्यथनाय।
न्यासः
प्रयै रोहिष्यै अव्यथिष्यै। , ३।४।१०

"प्रयै" इति। "अतो लोप इटि च" ६।४।६४ इत्याकारलोपः॥