पूर्वम्: ३।४।१०१
अनन्तरम्: ३।४।१०३
 
सूत्रम्
लिङस्सीयुट्॥ ३।४।१०२
काशिका-वृत्तिः
लिङः सीयुट् ३।४।१०२

लिङादेशानाम् सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्।
लघु-सिद्धान्त-कौमुदी
लिडः सीयुट् ५२२, ३।४।१०२

सलोपः। एधेत। एधेयाताम्॥
न्यासः
लिङ सीयुट्। , ३।४।१०२

"पचेत्" इत्यादौ "विधिनिमन्त्रण" ३।३।१६१ इत्यादिना लिङ, "लिङ सलोपोऽनन्तस्य" ७।२।७९ इति सकारलोपः, शपा सह "आद्गुणः" ६।१।८४ वलि लोपः। "पक्षीष्ट" इत्यादौ आशिषि लिङ, चकारस्य "चोः कुः" ८।२।३० इति कुत्वम्, "इण्कोः" ८।३।५७ इति षत्वम्॥
बाल-मनोरमा
लिङः सीयुट् १०१, ३।४।१०२

लिङः सीयुट्। स्पष्टम्। परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम्। सीयुटि टकार इत्। उकार उच्चारणार्थः। सलोप इति। "लिङः सलोप इत्यनेने"ति शेषः। एधेतेति। लिङस्तादेशः। सीयुट्। सलोपः। आद्गुणः। यलोपः। एधेयातामिति। आतामि सीयुट् शप् सलोपः। आद्गुणः। झस्य रन्। "लिङः सीयु"डित्यतो लिङ इत्यनुवर्तते। तदाह--लिङो झस्येति। लिङादेशस्य झस्येत्यर्थः। अनेकाल्त्वात्सर्वादेशः। एधेरन्निति। झस्य रन्। शप्। सीयुट्। सलोपः। आद्गुणः। यलोपः। एधेथा इति। थास् सीयुट् शप्। सीयुटः सस्य लोपः। आद्गुणः। यलोपः।थासः सस्य रुत्वविसर्गौ। एधेयाथामिति। आथां। सीयुट्। सलोपः। शप्।आद्गुणः। एधेध्वमिति। ध्वम् सीयुट्। शप्। सलोपः। आद्गुणः। यलोपः।

तत्त्व-बोधिनी
लिङः सीयुट् ७५, ३।४।१०२

सलोप इति। "लिङः सलोपोऽनन्त्यस्ये"त्यनेन। एधेयातामिति। सीयुटः सलोपे आद्गुणः।