पूर्वम्: ३।४।१०५
अनन्तरम्: ३।४।१०७
 
सूत्रम्
इटोऽत्॥ ३।४।१०६
काशिका-वृत्तिः
इटो ऽत् ३।४।१०६

लिङादेशस्य इअः अत इत्ययम् आदेशो भवति। पचेय। यजेय। कृषीय। हृषीय। तकारस्य इत्संज्ञाप्रतिषेधः प्राप्नोति, न विभक्तौ तुस्माः १।३। इति? न एव अयम् आदेशावयवस् तकारः, किं तर्हि, मुखसुखार्थ उच्चार्यते। आगमस्य इटो ग्रहणं न भवति, अर्थवद्ग्रहणे नानार्थकस्य ग्रहणम् इति।
लघु-सिद्धान्त-कौमुदी
इटोऽत् ५२४, ३।४।१०६

लिङादेशस्य इटोऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥
न्यासः
इटोऽत्। , ३।४।१०६

"कृषीय" इति। आशिषि लिङ्। "नैवायमादेशावयवः" इति। अकारमात्रस्यादेशत्वात्। यद्येवम, अकारोऽयमादेशो विधीयत इति "अणुदित्सवर्णस्य चाप्रत्ययः" (१।१।६९) इति सवर्णानां ग्राहकः स्यात्? "भाव्यमानोऽण् सवर्णान् न गृह्णाति" (व्या।प।३५) इति न भविष्यति। सत्यपि वा सवर्णग्रहणे मात्रिकस्यान्तरतम्यान्मात्रिक एव भविष्यति। अथ लाविषीष्टेत्यत्रागमस्येटः कस्मादकारो न भवतीत्याह-- "आगमस्येटो ग्रहणं न भवति" इति। अत्र कारणमाह-- "अर्थवद्()ग्रहणे न" इत्यादि। ननु चागमानामप्यर्थवत्त्वमस्त्येव, तथा हि-- यासुट्()सहितेनैव लिङो।ञर्थोऽविभिधीयते, न केवलेन? नैतदेवम्; अन्येषु लकारेषु विनापि तेनार्थवत्ता दृष्टा, आगमानां तु न क्वचित्। तेन तेऽर्थवन्तो न भवन्तीति॥
बाल-मनोरमा
इटोऽत् १०२, ३।४।१०६

इटोऽत्। इटः -अत् इति च्छेदः। "लिङः सीयु"डित्यतो लिङ इत्यनुवर्तते।तदाह--लिङादेशस्येति। "अच्च घे" रित्यत्रेव आदेशे तकार उच्चारणार्थ एव, नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपञ्चितम्। इत्संज्ञक एवेत्यन्ये। न विभक्ताविति निषेधस्तु न, आदेशत्वात्प्राग्विभक्तित्वाऽभावात्। "झस्य र"न्नित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारानतरप्रश्लेषादुपदेशेऽन्त्यत्वाऽभावान्नकारस्य नेत्संज्ञेत्यलम्। एधेयेति। इट्। तस्य अकारादेशः।सीयुट् शप्। सलोपः। आद्गुणः। एधेवहि। एधेमहीति। वहिमह्योः सीयुट्। सलोपः। शप्। आद्गुणः। यलोपः। इति विधिलिङ्प्रक्रिया। आद्र्धधातुकत्वादिति। "लिङाशिषी"त्यनेनेति भावः। सलोपो नति। सार्वधातुकग्रहणस्य "लिङः सलोप" इत्यत्रानुवृत्तेरिति भावः। सीयुट्सुटोरिति। लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः। युगपदेवोभयोः षत्वमित्यन्ये। एधिषीष्टेति। आशिषि लिङस्तादेशः। आद्र्धधातुकत्वान्न शप्। सीयुट्। तकारस्य सुट्। सीयुटः सकारात्प्रागिडागमः। यलोपः। सीयुट सुटश्च सकारस्य षत्वं। तकारस्य ष्टत्वेन टकारः। एधिषीयास्तामिति। आताम् सीयुट्। अकारादुपरि तकारात्प्राक्सुट्।सीयुः प्रागिट्। तत उत्तरस्य सकारस्य षत्वम्। एधिषीरन्निति। झस्य रन्। सीयुट्। इजागमः। यकारलोपः। षत्वम्। एधिषीष्ठा इति। थास् सीयुट्। थकारस्य सुट्। सीयुटः प्रागिट्। सकारद्वयस्य षत्वम्। थकारस्य ष्टुत्वेन ठकारः। रुत्वविसर्गौ। एधिषीयास्थामिति। आथाम्। सीयुट्। अकारादुपरि थकारात्प्राक्सुट्। सीयुटः प्रागिट्। तत उत्तरस्य सकारस्य षत्वम्। एधिषीध्वमिति। ध्वम् सीयुट् यलोपः। सीयुटः प्रागिट्। षत्वम्। इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वं नास्ति, इटः प्रत्ययभक्तत्वात्। ततश्च "इणः षीध्व"मिति ढत्वं न भवति। एधिषीयेति। इटोऽत्। सीयुट्। इट्। षत्वम्। एधिषीवहि एधिषीमहीति। वहिमह्योः सीयुट्। इट् षत्वम्। इत्याशीर्लिङ्प्रक्रिया। ऐधिष्टेति। लुङस्तादेशः। च्लिः। सिच्। इट्। धातोराट्। वृद्धिः। षत्वं ष्टुत्वम्। ऐधिषातामिति। आताम्। च्लिः। सिच्। इट्। आट्। वृद्धिः। षत्वम्।

तत्त्व-बोधिनी
इटोऽत् ७६, ३।४।१०६

एधिषीध्वमिति। इणः परत्वेऽपि इणन्तादह्गात्परत्वाऽभावात् "इणः षीध्वमि"ति ढत्वं न भवति।