पूर्वम्: ३।४।१०६
अनन्तरम्: ३।४।१०८
 
सूत्रम्
सुट् तिथोः॥ ३।४।१०७
काशिका-वृत्तिः
सुट् तिथोः ३।४।१०७

लिङः इत्येव। लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति। तकरथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकारे इकर उच्चारणार्थः। कृषीष्त। कृषीयास्ताम्। कृषीष्ठाः। कृषीयास्थाम्।
लघु-सिद्धान्त-कौमुदी
सुट् तिथोः ५२५, ३।४।१०७

लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥
न्यासः
सुट् तिथोः। , ३।४।१०७

अथ तकारथकाराब्यां लिङ विशिष्यते-- तकारथकायोर्यो लिङ स्थानीति? तेन वा तौ लिङसम्बन्धिनोस्तकारथकारयोरिति? तत्र यद्याद्यः पक्ष आश्रीयेत, तदा विशेष्यत्वाल्लिङः प्राधान्यम्। ततश्च प्रधाने कार्यसम्प्रत्ययाल्लिङ एव सुडागमः स्यात्। एवञ्च परत्वाद्विशेषविहित्वाच्च सुटा सीयड् बाध्येत। तस्माद्दुष्टोऽयं पक्ष इति द्वितीयं पक्षमाश्रित्याह-- "लिङ्सम्बन्धिनोः" इति। यदुक्तम्-- तकारथकारयोः सुडागमो भवतीति, तस्यार्थ स्पष्टीकर्त्तुमाह-- "तकारथकारावागमिनौ" इति। विशेष्यत्वेन प्राधान्यादिति भावः। यदुक्तञ्च-- लिङसम्बन्धिनोरिति, तस्यार्थ स्पष्टीकर्त्तुमाह-- "लिङ् तद्विशेषणम्" इति। "सीयुटस्तु लिङेवागमी" इति। तकारथकारावेवकारेण व्यवच्छिद्येते। "तेन" इत्यादि। यत एवं तकारथकारावागमिनौ सुटः, सीयुटस्तु लिङेव, तेन भिन्नदेशत्वात् सुटा सीयुड् न बाध्यते। न च भिन्नदेशयोर्बाध्यबाधकभावो युक्तः; विरोधाभावात्। "कृषीष्ट, कृषीष्ठाः" इति। तथासोरेकवचनयो रूपे। "कृषीयास्ताम्, कृषीयास्थाम्" इति। आतामाथामोः। सर्वत्राशिषि लिङ, "उश्च" १।२।३२ इति कित्त्वाद्गुणाभावः॥
बाल-मनोरमा
सुट् तिथोः ५९, ३।४।१०७

तथा च प्रकृते भव यास् त इति स्थिते-- सुट्()तिथोः। लिङः सीयुडित्यतो लिङ इत्यनुवर्तते। तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवनचम्। इकार उच्चारणार्थः। तदाह--लिङस्तकारेति। सुटि टकार इत्, उकार उच्चारणार्थः। भव यास् स् त् इति स्थितम्। नन्विह परेण सुटा यासुटः कथं न बाधः?। भवेयुरित्यादौ परस्मैपदेषु यासुड्()विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति--सुटा यासुण्न बाध्यत इति। तत्कुतः इत्यत आह-- लिङो यासुडिति। लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः। तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः।

तत्त्व-बोधिनी
सुट् तिथोः ४४, ३।४।१०७

तकारादिकार उच्चारणार्थः।