पूर्वम्: ३।४।१०७
अनन्तरम्: ३।४।१०९
 
सूत्रम्
झेर्जुस्॥ ३।४।१०८
काशिका-वृत्तिः
झेर् जुसू ३।४।१०८

लिङः इत्येव। लिङादेशस्य झेर् जुसादेशो भवति। झो ऽन्तापवादः। पचेयुः। यजेयुः।
लघु-सिद्धान्त-कौमुदी
झेर्जुस् ४३२, ३।४।१०८

लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥
न्यासः
झेर्जुस्। , ३।४।१०८

"पचेयुः" इति। "अतो येयः" ७।२।८० इतीयादेशः, "आद्गुणः" ६।१।८४ , पररूपत्वम्॥
बाल-मनोरमा
झेर्जुस् ६२, ३।४।१०८

अथ लिङो झेर्झोऽन्त इति प्राप्ते--झेर्जुस्। लिङः सीयुडित्यतो लिङ इत्यनुवर्तते। तदाह-- लिङो झेरिति। अनेकाल्त्वात्सर्वादेशः। ज इदिति। जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः। उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिं()त शङ्कितुमाह--उस्यप। एकः पूर्व्परयोरित्यधिकृतम्। आद्गुण इत्यस्मादादित्यनुवर्तते। "एङि पररूप"मित्यस्मात्पररूपमिति। तदाह--अपदान्तादिति। उसीति। उसि योऽच् उकारस्तस्मिन् परत इत्यर्थः, "इको यणची"त्यतोऽचीत्यनुवृत्तेः। यद्यपि उसः कृत्स्नस्याऽ‌ऽकारस्य च उसित्येकादेशेऽपि रूपं तुल्यं, तथापि अकः सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम्। भिन्द्युरित्याद्युदाहरणम्। इति प्राप्त इति। भव या उसित्यत्राकारस्योकारस्य चाद्गुणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः। सति च पररूपे या इत्यस्याऽभावादिञ् न स्यादिति मन्यते-- परत्वादिति। पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः। कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन , एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात्। ततश्च पररूपं बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः। ननु पररूपमङ्गाधिकारस्थत्वाऽभावादङ्गानपेक्षत्वादन्तरङ्गम्, इयादेशस्तु आङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वाद्बहिरङ्गः। ततश्च परान्नित्यादपीयादेशात्पररूपस्यान्तरङ्गतया बलवत्त्वात्पररूपमेव इह स्यादिति शङ्कते-- यद्यपीति। परिहरति--तथापिति। अतः -यास्-इयः-इति पदच्छेदः। यासिति लुप्तषष्ठीकं पदम्। ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः। ननु "लिङः स लोपोऽनन्()तयस्ये"ति सकारस्य लोप इयादेशं बाधित्वा नित्यत्वात्प्राप्नोतीति, ततश्च यास् इत्यस्य इय् इति कथमित्यत आह--एवं चेति। यासिति सकारान्तस्य इयादेशविधिसामथ्र्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः। तथा च सकारावस्थायामवर्णात्परत्वाऽभावेन पररूपस्याऽप्रवृत्तिरिति भावः। ननु यदि "यास्-इयः" इति च्छेदस्तदा सकारस्य रुत्वे, भोभगो इति यत्वे, "लोपः शाकल्यस्ये"ति तस्य लोपे अतो --या इय इति स्यात्। आद्गुणे कर्तव्ये यलोपस्याऽसिद्धत्वादित्यत आह-- सन्धिरार्ष इति। "आने मु"गिति सूत्रे भाष्ये तु "अतो या-- इय इत्येव सूत्रपा"ठो लक्ष्यते। भवेरिति। सिपि, शपि गुणः। अवादेशः। इतश्चेति इकारलोपः। यासुडागमः। सकारस्य लोपः। इयादेशः। आद्गुणः यलोपः। रुत्वविसर्गौ। एवं थसस्तमादेशे थस्य तादेशे च , भवेतं भवेतेति च रूपम्। भवेयमिति। मिपि अमादेशः। शप्। गुणः। अवादेशः। यासुट्। सलोपः। इयादेशः। आद्गुणः। भवेवेति। वस्। शप्। गुणावादैशौ। "नित्यं ङित" इति सकारलोपः। यासुट्। सलोपः। इयादेशः। आद्गुणः। यलोपः। एवं मसि भवेमेति रूपम्। इति विधिलिङ्()प्रक्रिया।