पूर्वम्: ३।४।१०९
अनन्तरम्: ३।४।१११
 
सूत्रम्
आतः॥ ३।४।११०
काशिका-वृत्तिः
आतः ३।४।११०

सिज्ग्रहणम् अनुवर्तते। सिच आकारान्ताच् च परस्य झेः जुसादेशो भवति। कथम् आभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचो ऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेण एव सिध्द्धे नियमार्थं वचनम्, आत एव सिज्लुगन्तात्, न अन्यस्मातिति। अभूवन्। प्रत्ययलक्षनेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वान् नियमस्य। श्रूयमाने हि सिचि भवत्येव, अकार्षुः, अहार्षुः।
लघु-सिद्धान्त-कौमुदी
आतः ४९३, ३।४।११०

सिज्लुकि आदन्तादेव झेर्जुस्॥
न्यासः
आतः। , ३।४।११०

सिचः परस्याकारान्तादुत्तरस्य झेरिति ब्राउवता द्वाभ्यमप्यनन्तरसय् झेरित्युक्तं भवति। उभाभ्याञ्चानन्तर्यं न सम्भवति, आतः सिचा व्यवधानादिति मन्यमानः पृच्छति-- "कथम्" इत्यादि। "सिचो लुकि" इति। "गातिस्था" २।४।७७ इत्यादिना यदा सिचो लुक् क्रियते तदा प्रत्ययलक्षणेन सिचोऽनन्तरः सम्भवति। "श्रुत्या चाकारान्तात्" इति। तदनन्तरश्रूयमाणत्वात्। श्रुत्येति श्रोत्रेन्द्रियसाध्योपलब्ध्येत्यर्थः। तदेवं द्वाभ्यामप्यानन्तर्यस्याश्रयणात् सामथ्र्यादातः सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति। न हि श्रूयमाणे सिचि द्वाभ्यामानन्तर्यं सम्भवति। "तकारो मुखसुखार्थः" इति। व्यावर्त्त्याभावात्। न हि ह्यस्वात् प्लुताद्वा वर्णात् परः सिच् सम्भवति। "पूर्वेणैव सिद्धे" इति। लुप्तेऽपि सिचि प्रत्ययलक्षणेन झेः सिजनन्तरत्वादभूविन्निति नियमस्य व्यावत्र्यं दर्शयति। "भुवो वुग् लुङलिटोः" ६।४।८८ इति वुक्। ननु च नैवेह पूर्वसूत्रेण प्राप्नोति, न हीह सिजपेक्षयानन्तर्यं झेर्विद्यते, तत् किं प्रतिषिध्यत इत्याह-- "प्रत्ययलक्षणेन" इत्यादि। लुप्ते हि प्रत्ययलक्षणेनानन्तर्यमस्ति, अतः पूर्वेण प्राप्नोति। जुस् नियमेन प्रतिषिध्यते। यदि तर्हि नियमार्थमिदम्, "अकार्षुः" इत्यत्रापि न स्यात्, न ह्रत्रातः सिज्लुगन्तात्परो झिर्भवतीति? इत्यत आह--"तुल्यजातीय" इत्यादि। आतः सिज्लुगन्तान्नियमार्थमयं जुस् विधीयते। स च नियमस्तुल्यजातीयापेक्षः, तेन समानजातीयमेव व्यवच्छिनत्ति। कश्च समानजातीयः? अन्यः {सिजलुगन्तः इति मु।पाठः।} सिज्लुगन्तः। न चाकार्षुरित्यत्र झेः पूर्वः सिज्लुगन्तः इति नायं नियमस्य विषयः, तेन भवत्येव जुस्॥
बाल-मनोरमा
आतः ७५, ३।४।११०

आतः। "झेर्जु"सिति सूत्रमनुवर्तते। "आतः सिज्लुगन्तादिति वक्तव्य"मिति वार्तिकं भाष्ये पठितम्। ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते। सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम्। तदाह-- आदन्तादेवेति। अभूवन्निति। झिः। च्लिः। सिच्। लुक्। अट्। झोऽन्तः। इतश्चेति इकारलोपः। तकारस्य संयोगान्तलोपः। "भुवो वुग्लुङ्लिटो"रिति वुक्। सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः। अभूरिति। सिप् च्लिः सिच् लुक् अट् इकारलोपः। रुत्वविसर्गौ। अभूतमिति। थसस्तम् च्लिः सिच् लुक् अट्। गुणनिषेधः। एवं थस्य तादेशे अभूतेति रूपम्। अभूवमिति। मिप् अम्। च्लिः सिच्। लुक्। अट् वुक्। अभूवेति। वस् च्लिः सिच् लुक् अट्। नित्यं ङित इति सकारलोपः। गुणनिषेधः। एवं मसि अभूमेति रूपम्। अथ माङि लुङि विशेषमाह-- न माङयोगे। शेषपूरणेन सूत्रं व्याचष्टे---अडादौ न स्त इति। "लुङ्लङ्लृङ्क्ष्वडुदात्त" इत्यत, "आडजादीना"मित्यश्च तदनुवृत्तेरिति भावः। मा भवान्()भूदिति। "मा स्म भवद्भूद्वेति। एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम्। इति लुङ्()प्रक्रिया।

तत्त्व-बोधिनी
आतः ५७, ३।४।११०

सिज्ग्रहणमंनुवर्तते, "झेर्जु"सिति च। सिच आकाराच्च परसय् झेर्जुस्। तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या। एवं स्थिते फलितमाह-- सिज्लुकीति। "गातिस्थे"ति सूत्रेणेत्यर्थः। "सिज्यभ्यस्ते"ति पूर्वसूत्रेणवादन्तादपि झेर्जुस् सिद्धे स्थिते नियमार्थोऽयमित्याह-- आदन्तादेवेति।