पूर्वम्: ३।४।११३
अनन्तरम्: ३।४।११५
 
प्रथमावृत्तिः

सूत्रम्॥ आर्धधातुकं शेषः॥ ३।४।११४

पदच्छेदः॥ आर्धधातुकम् १।१ ११७ शेषः १।१ धातोः ५।१ ३।१।९१ प्रत्ययः १।१ ३।१।१ परश्च १।१ ३।१।२

अर्थः॥

धातोः विहिताः शेषाः (तिङ्-शित्-भिन्नाः) प्रत्ययाः आर्धधातुक-संज्ञकाः भवन्ति। तिङ्-शितं वर्जयित्वा अन्यः प्रत्ययः शेषः।

उदाहरणम्॥

लविता, लवितुम्, लवितव्यम्
काशिका-वृत्तिः
आर्धधातुकं शेषः ३।४।११४

तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहितः आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोः ३।१।९१ इत्येव। वृक्षत्वम्। वृक्षता अस्ति। लूभ्याम्। लूभिः। जुगुप्सते।
न्यासः
आर्धधातुकं शेष-। , ३।४।११४

"लविता" इति। तृच्, "आर्धधातुकस्येड्वलादेः" ७।२।३५ इतीट्। "वृक्षत्वम्" इति। "तस्य भावस्त्वतलौ" ५।१।११८। "लूभ्याम्" इति। लुनातेः क्विबन्ताद्भ्याम्। "जुगुप्सते" इति। गुपादिसूत्रेण ३।१।५ सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं "वृक्षत्वम्" प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, "लूभ्याम्" इत्याद्ययुक्तम्, "क्विबन्ता धातुत्वं न जहति" (व्या।प।१३२) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात्? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः-- धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवत्र्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते? एवं मन्यते-- यङविधानसूत्रात् ३।१।२२ "शमिधातो संज्ञायाम्" ३।२।१४ इत्यतो वा द्वितीयदातुग्रहणमनुवत्र्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते-- धातोरित्येवं यो विहित इति। शेषग्रहणं किम्? तिङशितोर्मा भूत्, अन्यथा ह्रेकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्॥
बाल-मनोरमा
आद्र्धधातुकं शेषः ३६, ३।४।११४

भू तास् ति इति स्थिते--आद्र्धधातुकं शेष-। "तिङ्()शित्सार्वधातुक"मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः। तदाह-- तिङ्()शिद्भ्योऽन्य इति। विहित इति। "धातो"रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः। एवं च "जुगुप्सते" इत्यादौ "गुप्तिज्किद्भ्य" इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आद्र्धधातुकत्वाऽभावादिडागमो न भवति। एतत्संज्ञः स्यादिति। आद्र्धधातुकसंज्ञक इत्यर्थः। इडिति। तास्प्रत्ययस्योक्तसूत्रेणाद्र्धधातुकत्वात्स्वतो वलादित्वाच्च "आद्र्धधातुकस्येड्वलादे"रितीडागम इत्यर्थः।

तत्त्व-बोधिनी
आद्र्धधातुकं शेषः २९, ३।४।११४

"धातोरेकाचः" इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते। एतच्च तत्रैव मनोरमायां स्पष्टम्। दातोरितिविहित इति किम्?। लूभ्यां। जुगुप्सते॥