पूर्वम्: ३।४।१३
अनन्तरम्: ३।४।१५
 
सूत्रम्
कृत्यार्थे तवैकेन्केन्यत्वनः॥ ३।४।१४
काशिका-वृत्तिः
कृत्यार्थे तवैकेन्केन्यत्वनः ३।४।१४

छन्दसि इत्येव। कृत्यानाम् अर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वनित्येते प्रत्यया भवन्ति। तवै अन्वेतवै। अन्वेतव्यम्। परिधातवै। परिधातव्यम्। परिस्तरितवै। परिस्तरितव्यम्। केन् नावगाहे। नावगाहितव्यम्। केन्य दिदृक्षेण्यः। शुश्रूषेण्यः। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन् कर्त्वं हविः। कर्तव्यम्। तुमर्थे छन्दसि इति सयादिसूत्रे ऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर् द्रष्तव्यः।
न्यासः
कृत्यार्थे तवैकेन्केन्यत्वनः। , ३।४।१४

"कृत्यानामर्थो भावकर्मणी" इति। "तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इतिभावकर्मणोः कृत्यानां विधानात्। "अन्तेतवै" इति। अनुपूर्वादिणस्तवै। "परिधातवै" इति। परिपूर्वाद्दधातेः। "परिस्तरितवै" इति। परिपूर्वादेव "स्तृञ् आच्छादने" (धा।पा।१२५२) इत्यस्मात्। "अवगाहे" इति। "गाहु विलोडने" (धा।पा।६४९) अक्पूर्वः। "दिदृक्षेण्यः" इति। "दृशः सन्, द्विर्वचनम्, उरत्त्वम्, रपरत्वम्, "सन्यतः" ७।४।७९ इतीत्त्वम्, "हलन्ताच्च" १।२।१० इति गुणाभावः, व्रश्चादिसूत्रेण ८।२।३६ षत्वम्,"षढोः कः सि" ८।२।४१ इति कत्वम्, दिदृक्ष इति स्थिते केन्यप्रत्ययः, "अतो लोपः" ६।४।४८। "शुश्रूषेण्यः" इति। शृणोतेः सन्, "अज्झनगमां सनि" ६।४।१६ इति दीर्घः, द्विर्वचनमभ्यासकार्यम्, शुश्रूष इति स्थिते केन्यप्रत्ययः। "कत्त्र्वम्" इति। करोतेस्त्वम्। "सयादिसूत्रेऽपि तवै विहितः" इति। सयादीनां सूत्रं सयादिसूत्रम्, येन सयादयो विहितास्ततत्रापि तवैप्रत्ययो विहितः। "तस्य तुमर्थात्" इत्यादि। यदि तु तस्य तुमर्थ एव भावे विधिः स्यात् तस्यानर्थक्यं स्यात्; अनेनैव सिद्धत्वात्। तस्माद्यद्यपि तत्र तुमर्थ इत्युच्यते, तथापि ततोऽन्यत्र कर्मकारके कर्त्रादौ तवैप्रत्ययविधानं वेदितव्यम्॥