पूर्वम्: ३।४।१९
अनन्तरम्: ३।४।२१
 
सूत्रम्
परावरयोगे च॥ ३।४।२०
काशिका-वृत्तिः
परावरयोगे च ३।४।२०

परावराभ्यां योगः प्रावरयोगः। परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति। परेण तावत् अप्राप्य नदीं पर्वतः स्थितः। परनदीयोगेन पर्वतो विशिष्यते। अवरयोगे अतिक्रम्य तु पर्वतं नदी स्थिता। अवरपर्वतयोगेन नदी विशिस्यते।
न्यासः
परावरयोगे च। , ३।४।२०

इहेमौ परावरशब्दौ सम्बन्धिशब्दौ। पूर्वञ्चापेक्ष्य परो भवति, परञ्चापेक्ष्।यावरः,सम्बन्धिशब्दाश्च नियतमेव प्रतियोगिनमुपस्थापयन्ति, तस्मात् सूत्रे यद्यपि विशिष्टप्रयोगो न मिर्दिश्यते, तथापि पूर्वपरयोरेव परावराभ्यां योगो गम्यत इत्याह-- "परेण पूर्वस्य" इत्यादि। "परनदीयोगेन पर्वतो विशिष्यते" इति। तथा ह्रप्राप्य नदीं पर्वत इत्युक्ते परया नद्या पर्वतस्य यो योगस्तद्विशिष्टः पर्वतः प्रतीयते। "अवरपर्वतयोगेन नदी विशिष्यते" इवि। यस्मादतिक्रम्य पर्वतं नदीत्युक्तेऽवरेण पर्वतेन नद्या च यो योगस्तद्विशिष्ट नदी विज्ञायते॥
तत्त्व-बोधिनी
परावरयोगे च १५८८, ३।४।२०

परावर। अप्राप्येति। दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्यः। गङ्गाप्राप्तविरहविशिष्टदेशस्थो विन्ध्य इत्यर्थः। अत्र विन्ध्यात्परा गङ्गेति गम्यते। अतिक्रम्येति। दक्षिणदेशस्थानामेवायमपि प्रयोगः। अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते। इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्यसंसर्गा भिद्यन्त इति नास्ति वैयथ्र्यमिति दिक्।