पूर्वम्: ३।४।२१
अनन्तरम्: ३।४।२३
 
सूत्रम्
आभीक्ष्ण्ये णमुल् च॥ ३।४।२२
काशिका-वृत्तिः
आभीक्ष्ण्ये णमुल् च ३।४।२२

समानकर्तृकयोः पूर्वकाले इत्येव। आभीक्ष्णयम् पौनःपुन्यम्। प्रकृत्यर्थविशेषणं च एतत्। आभीक्ष्ण्यविशिष्टे ऽर्थे वर्तमानाद् धातोः णमुल् प्रत्ययो भवति, चकारात् क्त्व च। द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ। आभीक्ष्ण्ये द्वे भवतः इत्युपसङ्ख्यानाद् द्विर्वचनम्। भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति। पायं पायं व्रजति, पीत्वा पीत्वा व्रजति।
लघु-सिद्धान्त-कौमुदी
आभीक्ष्ण्ये णमुल् च ८८८, ३।४।२२

आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥
न्यासः
अभीक्ष्ण्ये णमुल् च। , ३।४।२२

"द्विर्वचनसहितौ" इत्यादि। आभीक्ष्ण्यं हि द्योतयितुं द्विर्वचनसहितयोरेव क्त्वाणमुलोः सामथ्र्यम्, न केवलयोः; शब्दशक्तिस्वाभाव्यात्। तस्माद्द्विर्वचनं विधेयमिति भावः। केन पुनरत्र द्विर्वचनमित्याह-- "आभीक्ष्ण्ये" इत्यादि। "पायम्पायम्" इति। "आतो युक्" ७।३।३३
तत्त्व-बोधिनी
आभीक्ष्ण्ये णमुल् च १६०८, ३।४।२२

आभीक्ष्ण्ये णमुल् च। ननु वाऽसरूपन्यायेन क्तवाप्रत्ययो भविष्यतीति "च" ग्रहणमिह व्यर्थमिति चेन्मैवम्। उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत। न चेष्टापत्तिः, "विभाषाऽग्रे" इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयथ्र्यप्रसङ्गात्। तत्र हि क्त्वाणमुलौ विभाषाग्रहणेन लडादिसमावेशार्थं विकल्प्येते। यद्यपि वाऽसरूपन्यायेनैव लडादिः सिध्यति तथापि णमुला सहैव क्त्वाप्रत्ययो यत्र विधीयते तत्रवाऽसरूपविधिर्न प्रवर्तत इति ज्ञापनार्थं विभाषाग्रहणम्। तत्फलं तु "आभीक्ष्णे णमुल् चे"त्यत्र लडाद्यप्रवृत्तिः। ततश्च चकारेणैव क्त्वाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयथ्र्यम्। किं च वाऽसरूपं विनैव क्त्वालडाद्योः स्वीकारे तु "न यद्यनाकाङ्क्षे" इत्यत्र क्त्वाप्रत्ययवल्लडादिरपि न सिद्ध्येत्। तथा च "यदयं भुङ्()क्ते ततः पठती"त्युदाहरणं न स्यात्। सिद्धान्ते तु "आभीक्ष्ण्ये णमुल्चे"ति विशेषविहितयोः क्त्वाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवाऽनुपपत्तिरिति दिक्।पूर्वविषय इति। "समानकर्तृकयोः पूर्वकाले" इत्यर्थः। पायंपायमिति। "आतो युक्"। वा दीर्घ इति। गमेण्र्यन्ताण्णमुलि मितां ह्यस्वे च कृते वा दीर्घ इत्यर्थः। ण्यन्तस्यापीति। यत्तु प्राचा ण्नय्तजागर्तेश्चिण्णमुलोर्वा वृद्धिरिति मतमुपन्यस्तं,तदपाणिनीयमिति भावः।