पूर्वम्: ३।४।२२
अनन्तरम्: ३।४।२४
 
सूत्रम्
न यद्यनाकाङ्क्षे॥ ३।४।२३
काशिका-वृत्तिः
न यद्यनाकाङ्क्षे ३।४।२३

यच्छब्दे उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतो ऽनाकाङ्क्षे वाच्ये। यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद् वाक्यं न परं किञ्चिदाकाङ्क्षते इति। णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितो ऽपि प्रतिषिद्यते। यदयं भुङ्क्ते ततः पचति। यदयम् अधीते ततः शेते। अनाकाङ्क्षे इति किम्? यदयं भुक्त्वा व्रजति अधीते एव ततः परम्।
न्यासः
न यद्यनाकाङ्क्षे। , ३।४।२३

"अनाकाङ्क्षे" इति। न विद्यत आकाङ्क्षा = अपेक्षा यस्य स तथोक्तः। "क्त्वा तु पूर्वसूत्रविहितोऽपि" इति। अपिशब्दादनन्तरविहितोऽपि युक्तं यदनन्तरसूत्रविहितः प्रतिषिध्यते-- "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।९९) इति कृत्वा। पूर्वसूत्रेण विहितस्य तु कथं प्रतिषेधः? प्रकरणापेक्षया प्रतिषेधविधानात्। पूर्वकालप्रकरणे यत् प्राप्नोति तन्न भवतीत्येवमयं पूर्वकालप्रकरणापेक्षया प्रतिषेधः क्रियते। तस्माद्युक्तः पूर्वसूत्रविहितस्यापि प्रतिषेधः॥
तत्त्व-बोधिनी
न यद्यनाकाङ्क्षे १६०९, ३।४।२३

न यदि। अनाकाङ्क्ष इति पचाद्यजन्तेन नञ्समासः। तद्दर्शयति--नाकाङक्षते चेदिति। चेदत्राहुः-- "पूर्वकाले यत्प्राप्नोति तन्ने"ति व्याख्यानात् क्त्वाप्रत्ययोऽपि न भवतीति।