पूर्वम्: ३।४।२४
अनन्तरम्: ३।४।२६
 
सूत्रम्
कर्मण्याक्रोशे कृञः खमुञ्॥ ३।४।२५
काशिका-वृत्तिः
कर्मण्याक्रोशे कृञः खमुञ् ३।४।२५

कर्मण्युपपदे कृजो धातोः खमुञ् प्रत्ययो भवति आक्रोशे गम्यमाने। चोरंकारम् आक्रोशति। चोरो ऽसि, दस्युरसि इत्याक्रोशति। चोरकरणम् आक्रोशसम् पादनार्थम् एव, न त्वसौ चोरः क्रियते।
न्यासः
कर्मण्याक्रोशे कृञः खमुञ्। , ३।४।२५

"चौराङ्कारम्" इति। "अरुर्द्विषदजन्तस्य मुम्" ६।३।६६ इति मुम्। "चौरकरणम्" इत्यादि। करोतिरत्रोच्चारणक्रियः। "चौरोऽसि"इत्याक्रोशवाक्ये चौरशब्दस्य यत् करणमुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्। न हि तेनविनाऽ‌ऽक्रोशः शक्यते प्रतिपादयितुम्। "न त्वसौ चौरः क्रियते" इति। अशक्यत्वात्। न च "चौरोऽसीति शतकृत्वोऽपि ब्राउवता पुरुषस्य शक्यते चौरत्वमुत्पादयितुम्॥