पूर्वम्: ३।४।२८
अनन्तरम्: ३।४।३०
 
सूत्रम्
कर्मणि दृशिविदोः साकल्ये॥ ३।४।२९
काशिका-वृत्तिः
कर्मणि दृशिविदोः साकल्ये ३।४।२९

कर्मण्युपपदे साकल्यविशिष्ते ऽर्थे दृशिविदोः धात्वोः णमुल् प्रत्ययो भवति। कन्यादर्शं वर्यति। याः याः कन्याः पश्यति तास्ताः वर्यति इत्यर्थः। ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयति इत्यर्थः। साकल्ये इति किम्? ब्राह्मणं दृष्ट्वा भोजयति।
न्यासः
कर्मणि दृशिविदोः साकल्ये। , ३।४।२९

"कर्मण्युपपदे साकल्यविशिष्टे" इति। एतेन साकल्यग्रहणं कर्मविशेषणमिति दर्शयति। "{यं यं ब्राआहृणं जानाति-- काशिका"} यं यं जानाति लभते विचारयति वा" इति। एतेन ज्ञानलाभविचारणार्थानां विदीनां ग्रहणमिति दर्शयति। कुतः पुनः सत्तार्थस्य ग्रहणं न भवति? तस्याकर्मकत्वात्, कर्मणीति चोपादानात्॥
तत्त्व-बोधिनी
कर्मणि दृशिविदोः साकल्ये १६१४, ३।४।२९

कन्यादर्शमिति। अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्यार्थऽन्वयात्साकल्यं बोध्यम्। सर्वा इति। दर्शनविषयीभूताः सर्वा इत्यर्थः। अतिशयप्रतिपादनपरमेतत्। ब्राआहृणवेदमिति। विद ज्ञाने, विद्लृ लाभे, विद विचारमे इति धात्वर्थान्पर्यालोच्य व्याचष्टे-- जानातीत्यादि। सत्तार्थस्य विदेरनेकार्थत्वान्नेह ग्रहणमिति भावः।