पूर्वम्: ३।४।२९
अनन्तरम्: ३।४।३१
 
सूत्रम्
यावति विन्दजीवोः॥ ३।४।३०
काशिका-वृत्तिः
यावति विन्दजीवोः ३।४।३०

यावच्छब्द उपपदे विन्दतेर् जीवतेश्च णमुल् प्रत्ययो भवति। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भुङ्क्ते इत्यर्थः। यावज्जीवम् अधीते। यावज्जीवति तावदधीते इत्यर्थः।
न्यासः
यावति विन्दजीवोः। , ३।४।३०

"विन्दतेः" इति। "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य॥
तत्त्व-बोधिनी
यावति विन्दजीवोः १६१५, ३।४।३०

यावति विन्द। विदेर्लाभार्थस्यानुकरणम्। तस्य हि "विन्दती"त्यादौ "शे मुचादीना"मिति नुमस्ति। यावल्लभत इति। असाकल्यमनेन दर्शयति। साकल्ये हि "कर्मणि दृशिविदो"रित्यनेनैव सिद्धम्।