पूर्वम्: ३।४।३२
अनन्तरम्: ३।४।३४
 
सूत्रम्
चेले क्नोपेः॥ ३।४।३३
काशिका-वृत्तिः
चेले क्नोपेः ३।४।३३

कर्मणि इत्येव। क्नूयी शब्दे उन्दने च, अस्माण्ण्यन्ताद् धातोः चेलर्थेषु कर्मसु उपपदेषु णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने। चेलक्नोपं वृष्टो देवः। वस्त्रक्नोपम्। वसनक्नोपम्।
न्यासः
चेले क्नोपेः। , ३।४।३३

"ण्यन्तात्" इति। सपुक्कस्यायां निर्देशः। पुक् च "अर्त्तिह्यी" ७।३।३६ इत्यादिना णावेव परतो भवतीति। तस्मादत एव निर्देशाण्ण्यन्तताऽवगम्यते। "चेलार्थेषु"इति। चेलमर्धो येषामिति बहुव्रीहिः। एतेन "चेल" इत्यस्यार्थग्रहणतां दर्शयति। अर्थग्रहणे च या युक्तिः सा "स्वादुमि णमुल्" ३।४।२६ इत्यत्रोक्ता, सैवेहार्थग्रहणे द्रष्टव्या। "चेलक्नोपम्" इति। वलि यलोपः, "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः, णिलोपः॥
तत्त्व-बोधिनी
चेलेक्नोपेः १६१७, ३।४।३३

चेलेः। व्याख्यानादर्थग्रहणमित्याहुः। चेलार्थेष्विति। चेलक्नोपमित्यादि। यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः। अन्ये तु क्नूथी क्लेदने, क्लिदू आद्र्रीभावे इत्येवं क्नोपयति ममुलन्तस्य प्रकृत्यर्थ पर्यालोच्य यथा वर्षमेन चेलान्याद्र्रीभवन्ती तावद्वृष्ट इति व्याचख्युः।