पूर्वम्: ३।४।३४
अनन्तरम्: ३।४।३६
 
सूत्रम्
शुष्कचूर्णरूक्षेषु पिषः॥ ३।४।३५
काशिका-वृत्तिः
शुष्कचूर्णरूक्षेषु पिषः ३।४।३५

कर्मणि इत्येव। शुष्कादिषु कर्मवाचिषु उपपदेषु पिषेर् धातोः णमुल् प्रत्ययो भवति। शुष्कपेषं पिनष्टि। शुष्कं पिनष्टि इत्यर्थः। चूर्णपेषं पिनष्टि। चूर्णं पिनष्टि इत्यर्थः। रूक्षपेषं पिनष्टि। रूक्षं पिनष्टि इत्यर्थः।
न्यासः
शुष्कचूर्षरूक्षेषु पिधः। , ३।४।३५

"पिषः" इति। "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२)॥