पूर्वम्: ३।४।४०
अनन्तरम्: ३।४।४२
 
सूत्रम्
अधिकरणे बन्धः॥ ३।४।४१
काशिका-वृत्तिः
अधिकरणे वन्धः ३।४।४१

अधिकरणवाचिनि उपपदे बध्नातेः धातोः णमुल् प्रत्ययो भवति। चक्रबन्धं बध्नाति। कूटबन्धं बध्नाति। मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति। चोरके बध्नाति इत्यर्थः।
न्यासः
अधिकरणे बन्धः। , ३।४।४१