पूर्वम्: ३।४।४३
अनन्तरम्: ३।४।४५
 
सूत्रम्
ऊर्ध्वे शुषिपूरोः॥ ३।४।४४
काशिका-वृत्तिः
ऊर्ध्वे शुषिपूरोः ३।४।४४

कर्तृग्रहणम् अनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिनि उपपदे शुषिषुरोः धात्वोः णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यति इत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यते इत्यर्थः।
न्यासः
ऊर्ध्वे शुषिपूरोः। , ३।४।४४

"ऊध्र्वं पूर्यते" इति। ऊध्र्वं पूरितो भवतीत्यर्थः। अनुदात्तेत्त्वादात्मनेपदम्, दिवादित्वच्छ्यन्॥ "घृतनिधायम्" इति। पूर्ववद् युक्॥