पूर्वम्: ३।४।४५
अनन्तरम्: ३।४।४७
 
सूत्रम्
कषादिषु यथाविध्यनुप्रयोगः॥ ३।४।४६
काशिका-वृत्तिः
कषादिषु यथाविध्यनुप्रयोगः ३।४।४६

निमूलसमूलयोः इत्येतदारभ्य कषादयः। एतेषु यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः णमुल् प्रत्ययो भवति स एव अनुप्रयोक्तव्यः। ननु धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव? यथाविधि इति नियमार्थं वचनम्, तथा च एव उदाहृतम्।
न्यासः
कषादिषु यथाविध्यनुप्रयोगः। , ३।४।४६

तत्त्व-बोधिनी
कषादिषु यताविध्यनुप्रयोगः १६२२, ३।४।४६

तथैवेति। "निमूलकाषं कषती"त्याद्युदाह्मतमित्यर्थः।