पूर्वम्: ३।४।४
अनन्तरम्: ३।४।६
 
सूत्रम्
समुच्चये सामान्यवचनस्य॥ ३।४।५
काशिका-वृत्तिः
समुच्चये सामान्यवचनस्य ३।४।५

द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः। ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खाद इत्येव अयम् अभ्यवहरति। सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम्। लाघवं च लौकिके शब्दव्यवहारे न अद्रियते। भ्राष्ट्रम् अट, मठम् अट, खदूरम् अट, स्थाल्युपिधानम् अट इत्येव अयम् अटति इत्यत्र अपि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव।
न्यासः
समुच्चये सामान्यवचनस्य। , ३।४।५

"सर्वविशेषानुप्रयोगानिवृत्त्यर्थम्" इति। यदीदं नारभ्यते तदा यावद्भ्यो धातुभ्यो लोड्विहितस्तावतामेवानुप्रयोगः प्रसज्येत; ततस्तन्निवृत्यर्थमेतत्। ननु चान्तरेणापीदं वचनं लाघवात् सामान्यवचनस्यैवानुप्रयोगो भविष्यति। सर्वविशेषानुप्रयोगे ह्रोदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायं भुङ्क्ते पिबति खादतीति सर्वेषु तदा तरुशब्दस्यैव प्रयोगः स्यात्, वनस्पतिशब्दप्रभृतयस्तूच्छिद्येरन्, न चैवम्, तस्मान्नास्ति लौकिकशब्दप्रयोगे गुरुलाघवं प्रत्यादरः। ननु च भ्राष्ट्रमटेत्यादावुदाहरणे कारकस्यैव समुच्चयो भ्राष्ट्रादेः, न क्रियायाः, तस्या एकत्वात्; अनेकाधारत्वञ्च सामान्यम्, एकत्वे क्रियायास्तन्न सम्भवति, तत्कथं सामान्यवचनस्यानुप्रयोग उपपद्यते? इत्याह-- "भ्राष्टमट"इत्यादि। गतार्थम्॥
बाल-मनोरमा
समुच्चये सामान्यवचनस्य १८२१, ३।४।५

समुच्चये सामान्यवचनस्य। उच्यतेऽनेनेति वचनः। सामान्यवाचिन इत्यर्थः। फलितमाह-- सामान्यार्थकस्येति। समुच्चीयमानक्रियासामन्यवाचिन इत्यर्थः। अनुप्रयोगादिति। अनुप्रयोगादिति। अनुप्रयुज्यमानादित्यर्थः। तत इति। अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः। हिस्वाभ्यां तु न सङ्ख्याकारकाद्यभिव्यक्तिः। तथा च भाष्यं-- "हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थः" इत्यादि। "क्रियासमभिहारे द्वे वाच्ये" इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम्। इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम्। क्रियासमभिहारे लोटमुदाहरति-- याहियाहीति यातीति। भाष्ये "इति" शब्दस्य दर्सनादिति भावः। ह्रन्तस्येति। याहि याहीत्यस्येत्यर्थः। एककर्तृकतकमिति। यातीति यानिकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः। अभेदान्वये इति। तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः। तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः। एवमिति। याहि याहीति यातः। याहि याहीति यान्तीतित्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः। याहि याहीति ययौ। याहि याहीति याता। याहि याहीति यास्यति। याहि याहीति यातु। लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः-- वा च तध्वमोरिति। तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह--यात यातेति यूयं यातेति। याहि याहीत्ययात्। याहि याहीति यायात्। लुङ्याह--याहि याहीत्ययासीदिति। लृङि उदाहरति-- अयास्यद्वेति। याहि याहीत्ययास्यदिति लृङि रूपम्। यास्यति वेति पाठे लृटि उदाहरणम्। क्रमस्तु न विवक्षितः। पक्षे इति। ध्वंविषये स्वादेशाऽभावपक्षे इत्यर्थः। यूयमधीध्वमिति-- लोण्मध्यमपुरुषबहुवचनम्। भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते। पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम्। अथ "समुच्चये सामान्यवचनस्ये" त्यस्योदाहरति-- समुच्चये त्विति। अभ्यवहरतीति। पानं द्रवद्रव्यस्य। दन्तसंमर्दनं विना भक्षणम्। खादनं तु -- कठिनद्रव्यस्य चर्वणम्। तयोः सामान्यरूपमभ्यवहरणम्, यथाकथंचिद्भक्षणात्मकत्वात्। पक्षे हिस्वाविति। तध्वमोर्विषये कदाचिद्धिस्वादेशौ पक्षे इत्यर्थः। "पिब खादेत्यभ्यवहरते" त्युदाहार्यम्। अत्रेति। "पिब खादेत्यभ्यवहरती"त्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमानधातुवाच्याभ्यवहरणातमकक्रियासामान्येनाऽभेदान्वय इत्यर्थः। पक्षे सक्तूनिति। समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः। एतेनेति। "समुच्चयेऽन्यतरस्या"मिति "समुच्चये समान्यवचनस्ये"ति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च "पुरीमवस्कन्दे"त्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः। बली-- रावणो, नमुचिद्विषा = इन्द्रेण सह, विगृह्र - विरोधं प्राप्य, पुर्याः = अमरावत्याः, अवस्कन्दनं = पीडनं, नन्दनवनस्य लवनं, रत्नानां मोषणम्, अमराङ्गनानां हरणमित्येवंप्रकारेण अहर्दिवम् = अहन्यहनि, अस्वास्त्यं चक्रे = कृतवानित्यन्वयः। इत्थंशब्द इतिपर्यायोऽवस्कन्दनादिक्रियाविशेषणामस्वस्थ्यक्रियासामान्येऽभेदं ग्राहयति। फलितमाह-- अवस्कन्दलवनादिति। आदिना मोषणं हरणं च गृह्रते। भ्रममूलकत्वमुपपादयति-- द्वितयीसूत्रे इति। अननुवृत्तेरिति। भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः। तदनुवृत्त्यभ्युपगमे बाधकमाह--- लोडन्तस्येति। "समुच्चयेऽन्यतरस्या"मिति सूत्रे "क्रियासमभिहारे" इत्नुवृत्तौ "अवस्कन्दे" त्यादिलोडन्तानां "क्रियासमभिहारे द्वे वाच्ये" इति द्वित्वापत्तेरित्यथः। भ्रम एवेति। मध्यमपुरुषांऽशे, एकवचनांशे च भ्र एवेत्यर्थः। कुत इत्यत आह-- पुरुषवचनसंज्ञे इह नेत्युक्तत्वादिति। अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तयेऽनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्माऽस्तु इत्युक्तम्। एवं च "तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थान"मिति श्रुतौ "समुच्चयेऽन्यतरस्या"मिति लोटो हिस्वावेव भवतो,न त्वनुप्रयोगः। तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याकालभिव्यक्तेरविवक्षितत्वेन तत्राऽनुप्रयोगस्य प्रयोजनाऽभावात्। एतेन "आ च सत्यलोकादाचाऽवीचेर्जायस्वम्रियस्वेति विपरिवर्तमानमात्मानं जीवलोकं चालोक्याऽस्मिन् संसारे नित्याऽशुचिदुःखात्मकं प्रसङ्ख्यानमुपवर्तते" इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम्। नचात्र "समुच्चयेऽन्यतरस्या"मित्यत्र "क्रियासमभिहारे" इत्यस्याननुवृत्तेरुक्तत्वात्कथमिह पौनःपुन्यमसकृत्पदगम्यमित्यदोषः। कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र "क्रियासमभिहारे" इति सूत्रेण लो"डित्युक्तम्, तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपञ्चितम्। इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रियानिरूपणम्।

अथ मत्वर्थीयप्रकरणम्।

----------------