पूर्वम्: ३।४।४९
अनन्तरम्: ३।४।५१
 
सूत्रम्
समासत्तौ॥ ३।४।५०
काशिका-वृत्तिः
समासत्तौ ३।४।५०

सप्तम्याम् तृतीयायाम् इति वर्तते। समासत्तिः सन्निकर्षः। समासत्तौ गम्यमानायां तृतीयासप्तम्योः उपपदयोः धातोः णमुल् प्रत्ययो भवति। केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर् ग्राहम्। हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर् ग्राहम्। युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः।
न्यासः
समासत्तौ। , ३।४।५०

"युद्धसंरभात्" इति। संरम्भः = मनः संक्षोभपूर्वको वाक्कायविकारविशेषः,युद्धाय संरम्भो युद्धसंरम्भः, तस्मादत्यन्तं सन्निकृष्यन्ते, प्तत्यासीदन्तीति यावत्॥
तत्त्व-बोधिनी
समासत्तौ १६२६, ३।४।५०

समासत्तौ। केशग्राहमिति। केशेषु ग्रहणं भवतु वा, मा भूत्, सन्निकर्षप्रतिपादनपरमेतत्।