पूर्वम्: ३।४।५६
अनन्तरम्: ३।४।५८
 
सूत्रम्
अस्यतितृषोः क्रियाऽन्तरे कालेषु॥ ३।४।५७
काशिका-वृत्तिः
अस्यतितृषोः क्रियान्तरे कालेषु ३।४।५७

द्वितीयायाम् इत्येव। क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः। क्रियान्तरे धात्वर्थे वर्तमानाभ्याम् अस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषु उपपदेषु णमुल् प्रत्ययो भवति। द्व्यहात्यासं गाः पाययति, द्व्यहमत्यासं गाः पाययति। त्र्यहात्यासं गाः पाययति, त्र्यहमत्यासं गाः पाययति। द्व्यहतर्षं गाः पाययति, द्व्यहंतर्षं गाः पाययति। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययति इत्यर्थः। अस्यतितृषोः इति किम्? द्व्यहमुपोष्य भुङ्क्ते। क्रियान्तरे इति किम्? अहरत्यस्य इषून् गतः। न गतिर् व्यवधीयते। कालेषु इति किम्? योजनम् अत्यस्य गाः पाययति। अध्वकर्मकम् अत्यसनं व्यवधायकम्, न कालकर्मकम्।
न्यासः
अस्यतितृषोः क्रियान्तरे कालेषु। , ३।४।५७

"अस्यतितृषोः"इति। "असु क्षेपणे" (धा।पा।१२०९), ञितृषा पिपासायाम्" (धा।पा।१२२८)। "क्रियामन्तरयति" इत्यादि। अन्तरं करोतीति "तत्करोति"(वा।२००) इत्यादिना णिच्। "क्रियामन्तरयति क्रियान्तरः" (इति) कर्मण्यण्, णिलोपः।अन्तरशब्दश्चायमिह व्यवधाने वत्र्तत इति दर्शयन्नाह--"क्रियाव्यवधायकः"इति। "पाययति"इति। "पा पाने" (धा।पा।९२५), णिच्। "शाच्छा"७।३।३७ इत्यादिना युक्। "अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते" इति। यच्चायं पानं यच्च द्व्यहेऽतीते पानं भविता तन्मध्यवर्तित्वाद्तयसननतर्षणयोः। "अद्य पाययित्वा" इत्यादिना द्व्यहात्यासं गाः पाययतीत्यस्यार्थमाचष्टे। एतदनुसारेणान्यस्याप्यर्थो गम्यत इतिन व्याख्यातः। "द्व्यहमुपोध्य"इति। "वस निवासे"(धा।पा।१९४२), वच्यादिना ६।१।१५ सम्प्रसारणम्, क्त्वो ल्यबादेशः "शासिवसिघसीनाञ्च" ८।३।६० इति षत्वम्। अत्रोपवसने भुजिक्रियाव्यवधायके वसिर्वत्र्तते। अत्र "अस्यतितृषोः"इति यदि नोच्येत तदेहापि स्यात्। "न गतिव्र्यवधीयते" इति। यथा मलोदाहरणेऽत्यसनेन तर्षणेन च मध्यवर्त्तिना पानक्रिया व्यवधीयते, न तथेह गतिः। तत्र चाहञ्छब्दातृ "कालाध्वनोरत्यन्तसंयोगे" २।३।५ इति द्वितीया। सकलस्याह्न इष्वत्यसनेन व्याप्तत्वादिषुशब्दात् कर्मण्येव। "योजनमत्यस्य गाः पाययति" इति। अत्राध्ववाच्युपपदम्। क्वचित् रुआउध्नादौ पाययित्वा योजनमतिक्रम्य पाययतीत्यर्थः। "अध्वकर्मकम्()", "न कालकर्मकम्िति द्वावपि बहुव्रीही॥