पूर्वम्: ३।४।५८
अनन्तरम्: ३।४।६०
 
सूत्रम्
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॥ ३।४।५९
काशिका-वृत्तिः
अव्यये ऽयथाभिप्रेताऽख्याने कृञः क्त्वाणमुलौ ३।४।५९

अव्यये उपपदे अयथभिप्रेताऽख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः। ब्राह्मण, पुत्रस्ते जातः। किं तर्हि वृषल, नीचैः कृट्याचक्षे, नीचैः कृत्वा, नीचैः कारम्। उच्चैर् नाम प्रियम् आख्येयम्। ब्राहमण, कन्या ते गर्भिणी। किं तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारम्। नीचैर् नामाप्रियम् आख्येयम्। अयथाभिप्रेताऽख्याने इति किम्? उच्चैः कृत्वाचष्टे पुत्रस्ते जातः इति। क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेव अत्र प्रकरणे वासरूपेण क्त्वा भवति इत्युक्तम्? समासार्थं वचनम्। तथा च क्त्वा च २।२।२२ इत्यस्मिन् सूत्रे तृतीयाप्रभृतीन्यन्यतरस्याम् २।२।२१ इति वर्तते। णमुलधिकारे पुनर् णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्, तेन उत्तरत्र द्वयोरप्यनुवृत्तिर् भविष्यति।
न्यासः
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। , ३।४।५९

"अयथाभिप्रेताख्याने" इति। यद्यदभिप्रेतमिष्टं यथाभिप्रेतम्, "यथाऽसादृश्ये"२।१।७ इति वीप्सायामव्ययीभावसमासः, न यथाभिप्रेतमयथाभिप्रेतम्। अप्रियमित्यर्थः। "आचक्षे"इति। आङपूर्वाच्चक्षिङो लट्; "थासः से"३।४।८०, "स्कोः संयोगाद्योरन्तेच"८।२।२९ इति ककारलोपः, "षढोः कः सि" ८।२।४१ इति कत्वम्,िण्कोःट ८।१।५७ इति षत्वम्। "उक्तम्" इति। क्वोक्तम्? "उपदंशस्तृतीयायाम्" ३।४।४७ इत्यत्र। उपपदसमासार्थं वचनमिति च। "क्त्वा च" २।२।२२ इत्यनेनोपपदसमासः पक्षे यथा स्यात्। कस्मात् पुनरनेन यः क्त्वा विहितस्तेन समासो भवति? यस्तु "समानकर्त्तृकयोः" (३।४।२१) इत्यादिना विहितस्तेन न भवति? इत्याह-- "तथा हि" इत्यादि। "क्त्वा च"२।२।२२ इत्यत्र "तृतीयाप्रभृतीनि" २।२।२१ इत्यनुवत्र्तते। तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो भवति, न तु तेन, तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयते। अथ णमुल्ग्रहणं किमर्थम्; यावता णमुलनुवत्र्तत एव,ततः क्तवा चेति वक्तव्यम्? इत्याह-- "णमुलधिकारे" इत्यादि। तुल्यकक्षत्वं तद्वत् तुल्यबलत्वम्। "तेन" इत्यादि। ज्ञापकस्य प्रयोजनं दर्शयति। यदि "क्त्वा च" इत्युच्येत। चकारेण यत्नादनुकृष्टो णमुलुत्तरत्र नानुवत्र्तेत; यत्नाभावात्। यथा तेन क्त्वाप्रत्ययस्यान्वाचीयमानता विज्ञायेत ततश्चोत्तरत्र तस्याप्रधान्यादनुवृत्तिर्न स्यात्। पुनर्णमुल्ग्रहणे सति सहनिर्देशात् क्त्वाणमुलोर्गुणप्रधानभावो न भवतीति द्वयोरप्यनुवृत्तिर्भवति॥
तत्त्व-बोधिनी
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ १६३१, ३।४।५९

अव्यये। अयथेति। न यथाभिप्रेतमयथाभिप्रेतं तथाख्यान इत्यर्थः। त्रियस्योच्चैः, अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम्। तद्विपरीताख्याने इति यावत्। नन्वप्रियाख्याने इत्येव कुतो नोक्तमिति चेदत्राहु-- प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव, न त्वप्रियाख्यानमिति "नीचैः कृत्य नीचैः कारं प्रियं ब्राऊते" इति प्रयोगो न स्यात्। तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति नीचैः कृत्य नीचैः कारमप्रियं ब्राऊत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति।