पूर्वम्: ३।४।५
अनन्तरम्: ३।४।७
 
सूत्रम्
छन्दसि लुङ्लङ्‌लिटः॥ ३।४।६
काशिका-वृत्तिः
छन्दसि लुङ्लङ्लिटः ३।४।६

धातुसम्बन्धे इत्येव। छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्याम् इति वर्तते। तेन अन्ये ऽपि लकारा यथायथं भवन्ति। लुङ् शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। लङ् अग्निम् अद्य होतारम् अवृणीतायं यजमानः। लिट् अद्या ममार। अद्य म्रियते।
न्यासः
छन्दसि लुङ्लङलिटः। , ३।४।६

"यथायथम्" इति। यथास्वम्। यो यस्यात्मीयो विषयः स तत्रेत्यर्थः। "अकरत्" इति।"कृमृदृरुहिभ्यश्छन्दसि"३।१।५९ इति च्लेरङ, "ऋदृशोऽङि गुणः" ७।४।१६। "अकरम्" इति। मिपोऽम्। "अवृणीत" इति। वृञो लङ्, क्र्यादित्वात् श्ना, पूर्ववदीत्वम्। "ममार" इति। लिट्, "म्रियतेर्लुङलिङोश्च" १।३।६१ इति नियमात् परस्मैपदम्, णल्, वृद्धिः, रपरत्वम्, "द्विर्वचनेऽचि" १।१।५८ इति स्थाननिवद्भावात् मृ इत्येतद्()द्विरुच्यते(), "उरत्" ७।४।६६ इत्यत्वम्, रपरत्वम्, हलादिशेषः॥