पूर्वम्: ३।४।५९
अनन्तरम्: ३।४।६१
 
सूत्रम्
तिर्यच्यपवर्गे॥ ३।४।६०
काशिका-वृत्तिः
तिर्यच्यपवर्गे ३।४।६०

तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः। समाप्य गतः इत्यर्थः। अपवर्गे इति किम्? तिर्यक्कृत्वा काष्ठं गतः। तिर्यचि इति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदो ऽश्, अदसो मात् १।१।१२ इति।
न्यासः
तिर्यच्यपवर्गे। , ३।४।६०

"तिर्यक्कृत्वा" इति। तिरोऽञ्चतीति ऋत्विगादिना ३।२।५९ क्विन्। "झलां जशोऽन्ते" ८।२।३९ इति चकारस्य जकारे कृते "क्विन्प्रत्ययस्य कुः"८।२।६२ इति कुत्वम्--गकारः, तस्यापि चत्र्वम्-- ककारः, "तिरसस्तिर्यलोपे" ६।३।९३ इति तिर्यादेशः। "तिर्यक्कृत्वा "{काष्ठं इति मूलपाठः} काण्डं गतः"इति। अनृजृ कृत्वा। पार्(ातः कृत्वेत्यर्थः। अथ "तिर्यचि" कोऽयं निर्देशः, यावता भसंज्ञायां सत्यां "अचः" ६।४।३८ इत्यकारलोपे कृते तिरश्चीति भवितव्यमित्यत आह-- "तिर्यचि" इत्यादि। सर्वत्र ह्रनुकरणभूतशब्दः शब्दस्वरूपस्यैवानुकरणम्। एतावांस्तु विशेषः-- क्वचिच्चब्दपदार्थस्यानुकरणम्, क्वचिदर्थस्येति। तत्रानुकरणमित्येतावपि वक्तव्ये शब्दरूपग्रहणं शब्दरूपमात्रस्यार्थरहितस्यैतदनुकरणमिति ज्ञापनार्थम्। तदेतदुक्तं भवति-- शब्दपदार्थको यस्तिर्यक्छब्दस्तस्येदमनुकरणम्, न तु स एव। तेन शब्दान्तरत्वादकारलोपो न भवतीति भावः। नन्वेवमपि "प्रकृतिवदनुकरणं भवति"(व्या।प।११३) इति भवितव्यमेवात्र प्रकृतिकार्येणाकारलोपेन? इत्यत आह-- "न च" इत्यादि। अत्रैवोपपत्तिमाह--"अनुक्रियमाणरूपविनाशप्रसङ्गात्" इति। यद्यत्र प्रकृतिकार्यं स्यात् ततो यादृशमनुकरणं तिर्यगिति शब्दरूपं तस्य विनाशोऽनुपलब्धिः स्यात्। यादृशमनुकर्त्तुमिष्टमकृताकारलोपं तादृशं न प्रतीयेतेत्यर्थः। यतएवं प्रकृतिवदनुकरणभावे सत्येष दोष आपतति, ततोनेह प्रकृतिवदनुकरणेन भवितव्यम्। "प्रकृतिवदनुकरणं भवति" (व्या।प।११३) इत्यस्य तु यत्रार्थपदार्थस्यानुकरणं सोऽवकाशो वेदितव्यः। क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह-- "एतदोऽश्" इत्यादि। एतदोऽदस इत्युभयमप्येतच्छब्दरूपपदार्थकस्यानुकरणम्। यदि च शब्दपदार्थकस्य यदनुकरणं तस्यापि प्रकृतिभावः स्यात्, तदा त्यदाद्यत्वादिके प्रकृतिकार्ये कृते-- एतस्य, अमुष्येति रूपं स्यात्। तस्याद्यथेह प्रकृतिभावो न भवति,तथातिर्यचीत्यत्रापि॥
तत्त्व-बोधिनी
तिर्यच्यपवर्गे १६३२, ३।४।६०

तिर्यक्कृत्वेति। अनृजुत्वादग्रतः स्थितं पार्(ातः कृत्वा गत इत्यर्थः।