पूर्वम्: ३।४।६२
अनन्तरम्: ३।४।६४
 
सूत्रम्
तूष्णीमि भुवः॥ ३।४।६३
काशिका-वृत्तिः
तूष्णीमि भुवः ३।४।६३

तूष्णींशब्दे उपपदे भवतेः धातोः क्त्वाणमुलौ प्रत्ययौ भवतः। तूष्णींभूय गतः, तूष्णीं भूत्वा, तूष्णींभावम्। भूग्रहणं कृञो निवृ̄त्त्यर्थम्।
न्यासः
तूष्णीमि भुवः। , ३।४।६३

ननु च "स्वाङ्गे तस्प्रत्यये कृभ्वोः" ३।४।६१ इत्यतो भूग्रहणमनुवत्र्तत एव, तत् किमर्थं भुव इतीहोच्यते? इत्याह-- "भूग्रहणम्" इत्यादि। पूर्व हि भूग्रहणं कृञा सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्; अतस्तन्निवृत्यर्थं पुनरिह भूग्रहणम्॥
तत्त्व-बोधिनी
तूष्णीमि भुवः १६३५, ३।४।६३

तूष्णीमि। कृञो निवृत्त्यर्थं तूष्णीङ्ग्रहणम्।