पूर्वम्: ३।४।६३
अनन्तरम्: ३।४।६५
 
सूत्रम्
अन्वच्यानुलोम्ये॥ ३।४।६४
काशिका-वृत्तिः
अन्वच्यानुलोम्ये ३।४।६४

अन्वक्शब्दे उपपदे भवतेर् धातोः आनुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यम् अनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानम्। अन्वग्भूय आस्ते, अन्वग् भूत्वा आस्ते, अन्वग्भावम् आस्ते। आनुलोम्ये इति किम्? अन्वग् भूत्वा तिष्ठति।
न्यासः
अन्वच्यानुलोम्ये। , ३।४।६४

"अन्वचि" इति निर्देशस्तिर्यचीत्यनेन व्याख्यातः। "अन्वग्भूय"इति। पूर्ववत् क्विनि कृते तदन्तस्य जश्त्वे कृते च रूपम्। "अन्वग्भूत्वाट इति। अनुचरो भूत्वा तिष्ठतीत्यर्थः॥
तत्त्व-बोधिनी
अन्वच्यानुलोम्ये ११६१, ३।४।६४

अन्वच्या। नन्विह "अचः" इत्यकारलोपे "च्वौ" इति पूर्वस्याऽणो दीर्घऽनूचीति निर्देष्टुमुचितम्। "द्युप्रागपागि"ति सूत्रे "प्रतीचोय"दितिवतो। एवं "तिर्यच्यपवर्गे" इति सूत्रेऽपि "तिरश्ची"त्येव निर्देष्टुमुचितमिति चेत्। अत्र केचित्-- शास्त्रोक्तं कार्यमर्थवत्येव भवति। अर्थश्च लोके प्रसिद्ध एव गृह्रते। "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः" इति न्यायात्। अतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति। तच्चिन्त्यम्। एवं तर्हि "क्षियो दीर्घात्" इत्यादावियङादिकं न स्यात्। "प्रतीचो य"दित्यपि न सिध्येदिति। वस्तुतस्तु "प्रकृतिवदनुकरण"मित्यस्य वैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषखः। वैकल्पिकत्वं च "यत्तदेतेभ्यः" इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम्। अग्रत इत्यादि। अन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम्। पृष्ठतो भूत्वत्यर्थ इति। इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यते, तस्य देशविशेषमात्र पर्यवसानात्। प्रमाणान्तरेण क्वचिदिहानुकूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या। इत्युत्तरकृदन्तम्।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणसेवकज्ञानेन्द्रसरस्वतीकृतायां सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां कृदन्तं समाप्तम्। समाप्ता चेयं तत्त्वबोधिनी।