पूर्वम्: ३।४।६६
अनन्तरम्: ३।४।६८
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तरि कृत्॥ ३।४।६७

पदच्छेदः॥ कर्तरि ७।१ कृत् १।१ धातोः ? प्रत्ययः ?

अर्थः॥

अस्मिन् धात्वधिकारे कृत्संज्ञकाः प्रत्ययाः कर्त्तरि कारके भवन्ति

उदाहरणम्॥

कर्त्ता, कारकः, नन्दनः, ग्राही, पचः
काशिका-वृत्तिः
कर्तरि कृत् ३।४।६७

कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति। कृदुत्पत्तिवाक्यानाम् अयं शेषः। तत्र येषु अर्थनिर्देशो नास्ति तत्र इदम् उपतिष्ठते, अर्थाकाङ्क्षत्वात्। न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषाम् निराकाङ्क्षत्वात्। कारकः। कर्ता। नन्दनः। ग्राही। पचः।
लघु-सिद्धान्त-कौमुदी
कर्तरि कृत् ७७२, ३।४।६७

कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते --।
न्यासः
कत्र्तरि कृत्। , ३।४।६७

किमर्थमिदम्? कत्र्तरि तृजादयो यथा स्युः। क्व तर्हि स्युः? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे (पु।प।पा।९०)। ननु च स्वार्थे यत्र प्रत्ययमिच्छति तत्र भावग्रहणं करोति, यथा-- घञादिविधौ भाव इति, न चैते घञादयः स्वार्थे भवन्ति, किं तर्हि? तस्य धर्मे सिद्धताख्ये; तथा लकारादिविधौ "लः कर्मणि च भावे चाकर्मकेभ्यः"३।४।६९ इत्यत्र सूत्रे लकारा अपि नैव स्वार्थे विधीयन्ते, किं तर्हि? तस्य धर्मे साध्यताख्ये? यद्यपि घञादीनां लकाराणाञ्च भावे विधानम्, तथापि शब्दशक्तिस्त्वाभाव्यादेष विषयविभागो लभ्यते। घञादीनां हि धात्वर्थस्य सिद्धतामेवाभिधातुं सामथ्र्यम्, लकाराणां साध्यतामेव। तदेवं यदनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, तस्मात् तृजादयोऽपि तत्रैव भवेयुः, अतः कत्र्तर्येव ते यथा स्युरित्येवमर्थमिदमारभ्यते। अत्र च द्वेधम्-- कृदुत्पत्तिवाक्यानामयं शेषो वा स्यात्-- ण्वुल्तृचौ कत्र्तरि, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कत्र्तरीति? अर्थादेशो वा? निरपेक्षैः स्वैः स्वैर्विधायकैवर्वाक्यैर्विहितानां कृतां पश्चादनेनार्थ आदिश्येत-- ये न लक्षणान्तरैः कृतो विहितास्ते कत्र्तरि वाच्ये भवन्तीति। तत्र यदि द्वितीयः पक्ष आश्रीयेत ततो यथा तृजादीनामनेनर्थ आख्यायते, तथा ख्युन्नादीनामपि; विशेषानुपादानात्, ततस्तेऽपि कत्र्तरि स्युः। स्वेषु विधिवाक्येषु करणादीनामुपादानात् कणादिष्वपि। यद्यप्येकस्य प्रत्ययस्य कत्र्तरि करणे च यगुपद्()वृत्तिर्न सम्भवति, तथापि वचनसामथ्र्यात् पर्यायेण कत्र्तरि करणे च स्युरिति। तस्माद्दुष्टोऽयं पक्ष इति प्रथमं पक्षमाश्रित्याह-- "कृदुत्पत्तिवाक्यानाम्" इत्यादि। अनेन तेषामस्य चैकवाक्यतामाह। यद्येवम्, ख्युन्नादिवाक्येष्वप्यनेनोपस्थातव्यम्-- तेषामप्ययं शेष इति कृत्वा, ततश्चास्मिन्नपि पक्षे द्वितीये पक्षे भावी दोषः स्यात्? इत्यत आह-- "तत्र येषु" इत्यादि। तत्रैव हे#उतमाह-- "अर्थाकाङ्क्षत्वात्" इति। शेषो हि तेषां भवति यान्यपरिसमाप्तत्वादर्थमाकाङ्क्षन्ति, नान्येषाम्। अतो येषु वाक्येष्वर्थो न#आदिश्यते तेषामेव साकाङ्क्षत्वात् शेषोऽयं युक्तः। तृजादीनामेव विधायकानि वाक्यान्यर्थानादशादर्थाकाङ्क्षाणि। तथा हि-- "ण्वुल्तृचौ भवतः" इत्युक्तेऽर्थविशेषाकाङ्क्षा भवति-- क्वेमौ भवत इति। तस्मात् तेषामेवायं शेष इति तेष्वेवोपतिष्ठते। "न ख्युन्नादिवाक्येषु" इति। "उपतिष्ठते" इति। प्रकृतेनैव सम्बन्धः। "साक्षात्" इत्यादि। अनुपस्थाने कारणम्। ख्युन्नादिवाक्यान्यर्थाकाङ्क्षाणि न भवन्ति, तेषु करणादीनामर्थानां साक्षान्निर्देशात्। तस्यान्न तेषामयं शेष इति न तेषूपतिष्ठते,अतो न भवत्येष दोषप्रसङ्गः॥
बाल-मनोरमा
कर्तरि कृत् ६५३, ३।४।६७

कर्तरि कृत्। अर्थनिर्देशोऽयम्। इति प्राप्ते इति। वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः।