पूर्वम्: ३।४।७१
अनन्तरम्: ३।४।७३
 
सूत्रम्
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽ‌ऽसवसजनरुहजीर्यतिभ्यश्च ॥ ३।४।७२
काशिका-वृत्तिः
गत्यर्थाक्रमकश्लिषशीङ्स्थाऽअसवसजनरुहजीर्यतिभ्यश् च ३।४।७२

गत्यर्थभ्यो धातुभ्यो ऽकर्मकेभ्य श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति। चकाराद् यथाप्राप्तं च भावकर्मणोः। गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामन्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन। अकर्मकेभ्यः ग्लानो भवान्, ग्लानं भवता। आसितो भवान्, आसितं भवता। श्लिष उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता। शीङ् उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता। स्था उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता। आस उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता। वस अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता। जन अनुजातो माणवको माण विकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन। रुह आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता। जीर्यति अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृपली देवदत्तेन, अनुजीर्णं देवदत्तेन। श्लिषादयः सोपसर्गाः सकर्मका भवन्ति, तदर्थम् एषाम् उपादानम्।
न्यासः
गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च। , ३।४।७२

"उपस्थितः" इति। "द्यतिस्यतिमास्थामिति किति" ७।४।४० इत्तीत्वम्। "अनूषितः" इति। वच्यादिना (६।१।१५ सम्प्रसारणम्, "वसतिक्षुघोः" ७।२।५२ इतीट्, "शासिवसिघसीनाञ्च" इति षत्वम्। "अनुजातः" इति। "जनसनखनां सञ्झलोः" ६।४।४२ इत्यात्त्वम्। "आरूढः" इति। "हो ढः" ८।२।३१, "झषस्तथोर्द्धोऽधः" ८।२।४० इति धत्वम्, "ष्टुना ष्टुः" ८।४।४०, " ढो ढे लोपः" ८।३।१३, "ढ्रलोपे पूर्वस्य" ६।३।११० इति दीर्घः। "अनुजीर्णः" इति। "जृ वयोहानौ" (धा।पा।१४९४), "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्, "हलि च" ८।२।७७ इति दीर्घत्वम्, "रदाभ्याम्" ८।२।४२इत्यादिना नत्वञ्च। ननु च श्लिषादीनामकर्मकत्वादेव सिध्यतीति तत्किमर्थमेषां ग्रहणमित्याह-- "श्लिषादयः" इत्यादि। "तदर्थम्" इति। सकर्मकार्थमित्यर्थः॥
बाल-मनोरमा
गत्यर्थाऽकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ८८९, ३।४।७२

गत्यर्थ। गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः। "लः कर्मणि च भावे चे"त्यतो भावे कर्मणीति "आदिकर्मणि क्तः कर्तरि चे"त्यतः कर्तरि इति चानुवर्तते। तदाह-- एभ्य इत्यादिना। कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः। गङ्गां गत इति। कर्तरि क्तः। गङ्गां प्राप्त इति। "आप्लृ व्याप्तौ" उपसर्गवशाद्गतौ वर्तते। अकर्मकादुदाहरति--म्लान इति। क्षीण इत्यर्थः। "संयोगादेः" इति निष्ठानत्वम्। आश्लिष्ट इति। आलिङ्गितवानित्यर्थः। नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह-- शेषमधिशयित इति। शेषे शयितवानित्यर्थः। "अधीशीङ्()स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः। वैकुण्ठमधिष्ठित इति। वैकुण्ठे स्थिवानित्यर्थः। "अधिशीङ्स्थासा"मिति वैकुण्ठः कर्म। अतो नाऽकर्मकत्वादिह प्राप्तिः। शिवमुपासित इति। शिवं परिचरितवानित्यर्थ-। उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः। हरिदिनमुपोषित इति। "वसतिक्षुधो"रिति इट्। यजादित्वात्संप्रसारणम्। "शासी"ति षः। हरिदिने न भुक्तवानित्यर्थः। "उपान्वध्याङ्वसः" इति हरिदिनं कर्म। ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः। राममनुजात इति। अनुकृतवानित्यर्थः। अनुसृत्य जातवानिति वा। "ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः। गरुडमारूढ इति। उपर्याक्रान्तवानित्यर्थः। वि()आमनुजीर्ण इति। हतवानित्यर्थः। व्याप्तवानिति वा। अकर्मकत्वाऽभावादप्राप्तिः। जृ()धातोः कर्तरि क्तः। "ऋतः" इतित इत्त्वं। रपरत्वं। "हलि चे " ति दीर्घः। "रदाभ्या"मिति नत्वं। णत्वम्। पक्षे इति। कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः।

तत्त्व-बोधिनी
गत्यर्थाऽकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ७३१, ३।४।७२

गत इति। "अनुदात्तोपदेशे"ति मलोपः। प्राप्त इति। प्रपूर्व आप्लृ व्याप्तौ। व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः। ग्लान इति। ग्लै हर्षक्षये। अकर्मकोऽयम्। "आदेच" इत्यात्वे "संयोगादेरात" इति नत्वम्। शेषमिति। "अधिशीङस्थासां कर्मे"ति कर्मत्वम्। अधिष्ठित इति। "द्यतिस्यती"ति इत्त्वम्। उपोषित इति। "वसतिक्षुधो"रितीट्। "शासिवसी"ति षत्वम्। अनुजीर्ण इति। जृ()ष् वयोहानौ। "ऋत इद्धातोः" "हलि चे"ति दीर्घः। नत्वणत्वे।