पूर्वम्: ३।४।७४
अनन्तरम्: ३।४।७६
 
सूत्रम्
ताभ्यामन्यत्रोणादयः॥ ३।४।७५
काशिका-वृत्तिः
ताभ्याम् अन्यत्रौणादयः ३।४।७५

उणादयः शब्दाः ताभ्याम् अपादानसम्प्रदानाभ्याम् अन्यत्र कारके भवन्ति। कृत्त्वात् कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते। ताभ्याम् इति सम्प्रदानार्थः प्रत्यवमर्शः, अन्यथा ह्यपादानम् एव पर्युदस्येत, अनन्तरत्वात्। कृषितो ऽसौ कृषिः। तनित इति तन्तुः। वृत्तम् इति वर्त्म। चरितं चर्म।
न्यासः
ताभ्यामन्यत्रोणादयः। , ३।४।७५

अथ किमर्थं ताभ्यामित्यनेन सम्प्रदानापादानप्रत्यवमर्शः क्रियते, एतावदेव वक्तव्यम्-- अव्यत्रोणादय इति, प्रकृतत्वादेव हि तयोस्ताभ्यामन्यत्रोणादयो विज्ञास्यन्ते? अत आह-- "सम्प्रदानप्रत्यवमर्शार्थम्" इत्यादि। "अन्यथा हि" इत्यादि। यदि "ताभ्याम्" इत्यनेन तयोः प्रत्यवमर्शो न क्रियते इत्यर्थः। "अनन्तरत्वात्" इत्यादि। "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति न्यायादपादानस्यैव पर्युदासः स्यात्, यदि ताभ्यामिति निर्देशो न क्रियेत। "कृषिः" इति। "इक् कृष्यादिभ्यः" (वा।३२४) इतीक्। "तन्तुः" इति। "सितनिगमिमसिसच्याविधाञ्क्रुशिभ्यस्तुन्" (द।उ।१।१२२) इति तुन्। "चर्म" इति। मनिन्॥