पूर्वम्: ३।४।७८
अनन्तरम्: ३।४।८०
 
सूत्रम्
टित आत्मनेपदानां {टे}रे॥ ३।४।७९
काशिका-वृत्तिः
टित आत्मनेपदानां टेरे ३।४।७९

टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषाम् टेः एकाराऽदेशो भवति। तथा च एव उदाहृतम्। इह कस्मान् न भवति पचमानः, यजमानः? प्रकृतैस् तिबादिभिः आत्मनेपदानि विशेष्यन्ते।
लघु-सिद्धान्त-कौमुदी
टित आत्मनपदानां टेरे ५१०, ३।४।७९

टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥
बाल-मनोरमा
टित आत्मनेपदानां टेरे ८०, ३।४।७९

टित आत्म। टेः--- ए इति च्छेदः। लस्येत्यधिकृतं। तदाह-- टितो लस्येति। "आदेशाना"मिति शेषः। अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि। तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम्। एधत इति। अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम्। अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशे "टित आत्मनेपदाना"मिति आम एत्वे, शपि एध--आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह-- सार्वधातुकमपित्। "गाङ्कुटादिभ्य" इत्यतो ङिदित्यनुवर्तते। अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते। तदाह--ङिद्वदिति।

तत्त्व-बोधिनी
टित आत्मनेपदानां टेरे ६२, ३।४।७९

ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इतय्त्र टेरेत्वेन भवितव्यमिति चेत्। अत्राहुः-- प्रकृतैस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः। एवं तु "टितस्तङां टेरे" इत्येव वक्तुमुचितमिति।