पूर्वम्: ३।४।८०
अनन्तरम्: ३।४।८२
 
सूत्रम्
लिटस्तझयोरेशिरेच्॥ ३।४।८१
काशिका-वृत्तिः
लिटस् तझयोरेशिरेच् ३।४।८१

लिडादेशयोः तझयोः यथासङ्ख्यम् एशिरेचित्येतावादेशौ भवतः। शकारः सर्वादेशार्थः। चकारः स्वरार्थः। पेचे, पेचाते, पेचिरे। लेभे, लेभाते, लेभिरे।
लघु-सिद्धान्त-कौमुदी
लिटस्तझयोरेशिरेच् ५१५, ३।४।८१

लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥
न्यासः
लिटस्तझयोरेशिरेच्। , ३।४।८१

"शकारः सर्वादेशार्थः" इति। असति तस्मिन् धात्वधिकारात् "तस्मादित्युत्तरस्य " १।१।६६ इत्यादेः परस्य तकारस्य प्रसज्येत। शकारे तु सति "अनेकाल्शित् सर्वस्य" १।१।५४ इति वचनात् सर्वस्य भवति। अथ "शे" इति कस्मान्नोक्तम्? नैवं शक्यम्; "शे" इति हि प्रगृह्रसंज्ञा स्यात्। इह च व्यतिपप इति पिबादेशः स्यात्। एशि तु सति न भवति, वक्ष्यति ह्रेतत्--- "वर्णे यत् स्यात् तच्च विद्यात् तदादौ" इति॥
बाल-मनोरमा
लिटस्तझयोरेशिरेच् ८७, ३।४।८१

लिटस्तझयो। ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत-- एकारोच्चारणमिति। ज्ञापनस्य फलमाह-- तन डारौरसां नेति डा रौ रस्--एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः। वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम्। कृ ए इति स्थित इति। तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः।

तत्त्व-बोधिनी
लिटस्तझयोरेशिरेच् ६८, ३।४।८१

एशिति शकारकरणकारविशिष्टतकारस्यादेशत्वाय।