पूर्वम्: ३।४।८२
अनन्तरम्: ३।४।८४
 
सूत्रम्
विदो लटो वा॥ ३।४।८३
काशिका-वृत्तिः
विदो लटो वा ३।४।८३

परस्मैपदानाम् इत्येव। विद ज्ञाने, अस्माद् धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेन आदेशा भवन्ति। वेद, विदतुः, विदुः। वेत्थ, विदथुः, विद। वेद, विद्व, विद्म। न च भवति। वेत्ति, वित्तः, विदन्ति। वेत्सि, वित्थः, वित्थ। वेद्मि, विद्वः, विद्मः।
लघु-सिद्धान्त-कौमुदी
विदो लटो वा ५७१, ३।४।८३

वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद। विदतुः। विदुः। वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे -- वेत्ति। वित्तः। विदन्ति॥
न्यासः
विदो लटो वा। , ३।४।८३

"विद ज्ञाने" इति। एतेन ज्ञानार्थस्य विदेग्र्रहणम्, नान्येषामिति। एवं मन्यते-- विद इति पञ्चमी, तेन "तस्मादित्युत्तरस्य" १।१।६६ इत्यनन्तराणां तिबादीनामादेशेन भवितव्यम्। न चान्यस्माद्विदेः परस्मैपदान्यनन्तराणि सम्भवति; विकरणैव्र्यवधानात्। विचारसत्तार्थयोश्चात्मनेपदित्वात् परस्मैपदानुपपत्तिः। तस्मात् ज्ञानार्थस्यैव ग्रहणमिति॥
बाल-मनोरमा
विदो लिटो वा २९५, ३।४।८३

विदो लटो वा। "परस्मैपदानां णलतु"सित्यादिसूत्रमनुवर्तते। "विद"इति पञ्चमी। तदाह--वेत्तेर्लट इति। विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः। इत्यादीति। विदन्ति। वेत्सि वित्थः वित्थ। वेद्मि विद्वः विद्मः। विविदतुरिति। विविदुः। विवेदिथ विविदथुः विविद। विवेद विविदिव विविदिम। आम्पक्षे इति। न लघूपधगुण इत्यन्वयः। कुत इत्यत आह--अकारान्तनिपातनादिति। "उषविदे"ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः। आमि अतो लोपः। तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः। वेदितेति। वेदिष्यतीत्यपि ज्ञेयम्।

तत्त्व-बोधिनी
विदो लटो वा २५५, ३।४।८३

विदो लटो वा। पञ्चमीयं, न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य लटोऽभावान्नैते आदेशाः। तदाह--वेत्तेरिति।