पूर्वम्: ३।४।८३
अनन्तरम्: ३।४।८५
 
सूत्रम्
ब्रुवः पञ्चानामादित आहो ब्रुवः॥ ३।४।८४
काशिका-वृत्तिः
ब्रुवः पञ्चानाम् आदित आहो ब्रुवः ३।४।८४

परस्मैपदानाम् इत्येव, लटो वा इति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम अदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति। ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानाम् इति किम्? ब्रूथ। ब्रवीमि, ब्रूवः, ब्रूमः। आदितः इति किम्? परेषां मा भूत्। ब्रुवः इति पुनर् वचनं स्थान्यर्थम्, प्रस्मैपदानाम् एव हि स्यात्।
लघु-सिद्धान्त-कौमुदी
ब्रुवः पञ्चानामादित आहो ब्रुवः ५९६, ३।४।८४

ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥
न्यासः
ब्राउवः पञ्चानामादित आहौ ब्राउवः। , ३।४।८४

"पञ्चैव" इत्यादि। ननु च नेह द्वितीयं पञ्चग्रहणं, नाप्यदिग्रहणमादेशविशेषमम्, तत्र पञ्चानामाद्यानां स्थाने सर्वैरेव णलादिभिः पर्यायेण भवितव्यम्, तत् कथं पञ्चैव णलादय आदेशा भवन्तीत्येषोऽर्थो लभ्यते? इत्यत आह-- "स्थानिसम्बन्धात् " इत्यादि। इह हि स्थानिनः पञ्चैवाऽद्या निर्दिष्टाः, तेषाञ्च "स्थानेऽन्तरतमः" १।१।४९ इति परिभाषया पञ्चिरेवाद्यैः सम्बन्धः सम्भवति, नेतरैश्च। तथा हि-- पञ्चानामेवाद्यानामान्तरतम्यमस्ति, तुल्यार्थत्वात्। नान्येषाम्, विपर्ययात्। तस्मात् स्थानिसम्बन्धादादेशेष्वपि पञ्चत्वमादित्वञ्च विज्ञायत इति युक्तम्-- पञ्चैव णलादय आदेशा भवन्तीति। "आत्थ" इति। "आहस्थः" ८।२।३५ इति हकारस्य थकारः, तस्य "खरि च" ८।३।५५ इति चत्र्वम्-- तकारः। "ब्रावीति" इति। "ब्राउव ईट्" ७।३।९३। "परेषाम्" इति। थादीनाम्। अथ "ब्राउवः" इति किमर्थं पुनरिदमुच्यते, यावता ब्राउव इति यदेतत् पञ्चम्यन्तं तदेवार्थद्विभक्तेर्विपरिणामो भविष्यीति षष्ठ()न्तं विज्ञास्यत इत्याह-- "ब्राउवः" इति पुनर्वचनम्" इत्यादि। असति हि श्रते सम्बन्धिनि विभक्तिविपरिणामो युक्तः। इह परस्मैपदानामिति प्रकृता एव तिबादयः षष्ठ()न्ताः सम्बन्धिन इति न युक्तो विभक्तिविपरिणामः। "ब्राउवः" इतियदि पुनर्नोच्येत ततो यथा णलादयः परस्मैपदानां भवन्ति, एवमाहौदेशोऽपि स्यात्। तस्मात् तं प्रति ब्राउवः स्थानित्वं यथा स्यादित्येवमर्थं "ब्राउवः" इति पुनरुच्यते। "परस्मैपदानामेव हि स्यात्" इति। यदि "ब्ुवः" इति पुनर्नोच्येतेति शेषः। अयञ्च "ब्राउवः" इति पूनर्वचनस्य हेतुः। हिशब्दो यस्मादर्थे। यस्मादसति पुनवर्वचने परस्मैपदानामेवाहादेशः स्यात्, तस्मात् "ब्राउवः" इति पुनर्वचनं कत्र्तव्यम्॥
बाल-मनोरमा
ब्राऊवः पञ्चानामादित आहो ब्राउवः २८१, ३।४।८४

ब्राऊञ्। ब्राउवः पञ्चानाम्। "परस्मैपदानां णलतु"रित्यत उत्तरसूत्रमिदम्। "विदो लटो वे"त्यतो लटो वेत्यनुवर्तते। तदाह--ब्राउवो लट इति। आदितः पञ्चानामिति। तिप् तस् झि सिप् थसित्येषामित्यर्थः। णलादयः पञ्चेति। णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः। उच्चारणार्थ इति। तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति। आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः। सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते--

तत्त्व-बोधिनी
ब्राउवः पञ्चानामादित आहो ब्राउवः २४६, ३।४।८४

ब्राउवः पञ्चानाम्। "विदो लटो वे"त्यतो लटो वेतित वर्तते। "ब्राउव" इत्येतदादिमं पञ्चम्यन्तमन्तिमं तु पञ्चम्यन्तमन्तिमं तु षष्ठ()न्तमित्याशयेनाह-- ब्राउवो लट इत्यादि। चत्र्वमिति। प्रक्रियालाघवात् "आहस्तः" इत्येव सुवचमित्याहुः।